निपातार्थमेव स्फुटयति —
वर्तमानेति ।
प्रजापतिशब्दो भविष्यद्वृत्त्या यजमानं गोचरयतीत्याह —
वृत्तेति ।
इन्द्रादयो देवा विरोचनादयश्चासुरा इत्याशङ्कां वारयति —
तस्यैवेति ।
यजमानेषु प्राणेषु देवत्वमसुरत्वं च विरुद्धं न सिद्ध्यतीति शङ्कते —
कथमिति ।
तेषु तदुभयमौपाधिकं साधयति —
उच्यत इति ।
शास्त्रानपेक्षयोर्ज्ञानकर्मणोरुत्पादकमाह —
प्रत्यक्षेति ।
सन्निधानासंन्निधानाभ्यां प्रमाणद्वयोक्तिः । स्वेष्वेवासुषु रमणं नामाऽऽत्मम्भरित्वम् ।
तत इत्यादिवाक्यद्वयं व्याचष्टे —
यस्माच्चेति ।
देवानामल्पत्वं प्रपञ्चयति —
स्वाभाविकी हीति ।
महत्तरत्वे हेतुर्दृष्टप्रयोजनत्वादिति ।
असुराणां बहुत्वं प्रपञ्चयति —
शास्त्रजनितेति ।
असुराणां बाहुल्यमिति शेषः ।
तदेव साधयति —
अत्यन्तेति ।
उभयेषां देवासुराणां मिथः संघर्षं दर्शयति —
देवाश्चेति ।
कथं ब्रह्मादीनां स्थावरान्तानां भोगस्थानानां स्पर्धानिमित्तत्वमित्याशङ्क्य तेषां शास्त्रीयेतरज्ञानकर्मसाध्यत्वात्तयोश्च देवासुरजयाधीनत्वात्तस्य च स्पर्धापूर्वकत्वात्परम्परया लोकानां तन्निमित्तत्वमित्यभिप्रेत्य विशिनष्टि —
स्वाभाविकेति ।
का पुनरेषां स्पर्धा नामेत्याशङ्क्याऽऽह —
देवानां चेति ।
तामेव सफलां विवृणोति —
कदाचिदित्यादिना ।
अधिकृतैरसुरपराजये देवजये च प्रयतितव्यमित्यनुग्रहबुद्ध्या जयफलमाह —
एवमिति ।
आकाङ्क्षापूर्वकमनन्तरवाक्यमादाय व्याकरोति —
त एवमित्यादिना ।
योऽयमुद्गीथो नाम कर्माङ्गभूतः पदार्थस्तत्कर्तुः प्राणस्य स्वरूपाश्रयणमेव कथं सिद्ध्यतीत्याशङ्क्याऽऽह —
उद्गीथेति ।
किं तत्कर्म किं वा ज्ञानं तदाह —
कर्मेति ।
तदेतान्यसतो मा सद्गमयेत्यादीनि यजूंषि जपेदिति विधित्स्यमानमिति योजना ।