द्वया हेत्यादि न ज्ञाननिरूपणपरं जपविधिशेषत्वेनार्थवादत्वात्तत्कुतोऽत्र ज्ञानस्य निरूप्यमाणत्वमित्याक्षिपति —
नन्विति ।
आभिमुख्येनाऽऽरोहति देवभावमनेनेत्यभ्यारोहो मन्त्रजपस्तद्विधिशेषोऽर्थवादो द्वया हेत्यादिवाक्यमित्यर्थः ।
उपास्तिविधिश्रवणात्तत्परं वाक्यं न जपविधिशेष इति दूषयति —
नेति ।
मा भूज्जपविधिशेषस्तथाऽप्युद्गायेत्यौद्गात्रस्य कर्मणः सन्निधाने पुरातनकल्पनाप्रकारस्य द्वया हेत्यादिना श्रवणात्तद्विधिशेषोऽर्थवादोऽयमिति शङ्कते —
उद्गीथेति ।
नेदं वाक्यं ज्ञानं चोद्गीथविधिशेषस्तत्प्रकरणस्थत्वाभावेन सन्निध्यभावादिति दूषयति —
नाप्रकरणादिति ।
उद्गीथस्तर्हि क्व विधीयते न खल्वविहितमङ्गं भवति तत्राऽऽह —
उद्गीथस्य चेति ।
अन्यत्रेति कर्मकाण्डोक्तिः ।
अथोद्गायेत्युद्गीथविधिरपीह प्रतीयते तत्कथं सन्निधिरपोद्यते तत्राऽऽह —
विद्येति ।
उद्गीथविधिरिह प्रतीयमानः प्राणस्योद्गातृदृष्ट्योपासनविधिरन्यथा प्रकरणविरोधादित्यर्थः ।
जपविधिशेषत्वमुद्गीथविधिशेषत्वं वा ज्ञानस्य नास्तीत्युक्तम् । इदानीं जपविधिशेषत्वाभावे युक्त्यन्तरमाह —
अभ्यारोहेति ।
अनित्यत्वं साधयति —
एवमिति ।
प्राणविज्ञानवताऽनुष्ठेयो जपो न तद्विज्ञानात्प्रागस्ति । तेनासौ पश्चाद्भावी प्रागेव सिद्धं विज्ञानं प्रयोजयतीत्यर्थः ।
तस्यापि प्राचीनत्वं कथमित्याशङ्क्याऽऽह —
विज्ञानस्य चेति ।
’य एवं विद्वान्पौर्णमासीं यजत’ इतिवद्य एवं वेदेति विज्ञानं श्रुतम् । न हि प्रयाजादि पौर्णमासीप्रयोजकम् । तस्या एव तत्प्रयोजकत्वात् । तथा प्राणवित्प्रयोज्यो जपो न विज्ञानप्रयोजकः तस्य स्वप्रयोजकत्वेन प्रागेव सिद्धेरावश्यकत्वादित्यर्थः ।
फलवत्त्वाच्च प्राणविज्ञानं स्वतन्त्रं विधित्सितमित्याह —
तद्धेति ।
प्राणोपास्तेर्विवक्षितत्वे हेत्वन्तरमाह —
प्राणस्येति ।
’यद्धि स्तूयते तद्विधीयते’ इति न्यायमाश्रित्योक्तमेव प्रपञ्चयति —
न हीति ।
इतश्च प्राणोपास्तिरत्र विधित्सितेत्याह —
मृत्युमिति ।
फलवचनं प्राणस्यानुपास्यत्वे नोपपद्यत इति संबन्धः ।
उक्तमेव व्यनक्ति —
प्राणेति ।
मृत्युमोक्षणानन्तरं वागादीनां यदग्न्यादित्वं फलं तदध्यात्मपरिच्छेदं हित्वोपासितुराधिदैविकप्राणस्वरूपापत्तेरुपपद्यते । तस्माद्विधित्सितैवात्र प्राणोपास्तिरित्यर्थः ।