उक्तन्यायेन प्राणोपास्तिमुपेत्य प्राणदेवतां शुद्ध्यादिगुणवतीमाक्षिपति —
भवत्विति ।
यथा प्राणस्योपास्तिः शास्त्रदृष्टत्वादिष्टा तथाऽस्य गुणसंबन्धः श्रुतत्वादेष्टव्य उपास्तावुपास्ये च गुणवति प्राणे प्रामाणिकत्वप्राप्तेरविशेषादिति सिद्धान्ती ब्रूते —
नन्विति ।
प्राणस्योपास्यत्वेऽपि विशुद्ध्यादिगुणवादस्य स्तुत्यर्थत्वेनार्थवादत्वसंभवान्न यथोक्ता देवता स्यादिति पूर्ववाद्याह —
न स्यादिति।
विशुद्ध्यादिगुणवादस्यार्थवादत्वेऽपि नाभूतार्थवादत्वमिति परिहरति —
नेति ।
विशुद्ध्यादिगुणविशिष्टप्राणदृष्टेरत्र फलप्राप्तिः श्रुता न सा ज्ञानस्य मिथ्यार्थत्वे युक्ता सम्यग्ज्ञानादेव पुमर्थप्राप्तेः संभवादतः स्तुतिरपि यथार्थैवेत्यर्थः ।
लोकदृष्टान्तं व्याचष्टे —
यो हीति ।
इहेति वेदाख्यदार्ष्टान्तिकोक्तिः ।
ननु विशुद्ध्यादिगुणवतीं देवतां वदन्ति वाक्यान्युपासनाविध्यर्थत्वान्न स्वार्थे प्रामाण्यं प्रतिपद्यन्ते तत्राऽह —
न चेति ।
अन्यपराणामपि वाक्यानां मानान्तरसम्वादविसम्वादयोरसतोः स्वार्थे प्रामाण्यमनुभवानुसारिभिरेष्टव्यमित्यर्थः ।
ननु प्राणस्य विशुद्ध्यादिवादो न स्वार्थे मानमन्यपरत्वादादित्ययूपादिवाक्यवदता आह —
न चेति ।
आदित्ययूपादिवाक्यार्थज्ञानस्य प्रत्यक्षादिनाऽपवादवद्विशुद्ध्यादिगुणविज्ञानस्य नापवादः श्रुतस्तस्माद्विशुद्ध्यादिवादस्य स्वार्थे मानत्वमप्रत्यूहमित्यर्थः ।
विशुद्ध्यादिगुणकप्राणविज्ञानात्फलश्रवणात्तद्वादस्य यथार्थत्वमेवेत्युपसंहरति —
तत इति ।
लोकवद्वेदेऽपि सम्यग्ज्ञानादिष्टप्राप्तिरनिष्टपरिहारश्चेत्यन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेनापि समर्थयते —
विपर्यये चेत्यादिना ।
शास्त्रस्यानर्थार्थत्वमिष्टमिति शङ्कां निराचष्टे —
न चेति ।
अपौरुषेयस्यासंभावितसर्वदोषस्याशेषपुरुषार्थहेतोः शास्त्रस्यानर्थार्थत्वमेष्टुमशक्यमित्यर्थः ।
शास्त्रस्य यथाभूतार्थत्वं निगमयति —
तस्मादिति ।
उपासनार्थं ज्ञानार्थं चेति शेषः ।
शास्त्राद्यथार्थप्रतिपत्तेः श्रेयःप्राप्तिरित्यत्र व्यभिचारं चोदयति —
नामादाविति ।
तदेव स्फुटयति —
स्फुटमिति ।
अब्रह्मणि ब्रह्मदृष्टिरतस्मिंस्तद्बुद्धित्वान्मिथ्या धीः सा च यावन्नाम्नो गतमित्यादिश्रुत्या फलवती ततः शास्त्राद्यथार्थप्रतिपत्तेरेव फलमित्ययुक्तमित्यर्थः ।
भेदाग्रहपूर्वकोऽन्यस्यान्यात्मतावभासो मिथ्याज्ञानमत्र तु भेदे भासमानेऽन्यत्रान्यदृष्टिर्विधीयते । यथा विष्णोर्भेदे प्रतिमायां गृह्यमाणे तत्र विष्णुदृष्टिः क्रियते तन्नेदं मिथ्याज्ञानमित्याह —
नेति ।
नञर्थं स्पष्टयति —
नामादाविति ।
प्रश्नपूर्वकं हेतुं व्याचष्टे —
कस्मादिति ।
प्रतिमायां विष्णुदृष्टिं प्रत्यालम्बनत्वमेव न विष्णुतादात्म्यं नामादेस्तु ब्रह्मतादात्म्यं श्रुतमिति वैषम्यमाशङ्क्यऽऽह —
आलम्बनत्वेनेति ।
उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति —
यथेति ।