ज्ञानमिह परीक्ष्यमाणमित्येतत्प्रसंगागतं विचारं परिसमाप्य ते ह वाचमित्यादि व्याचष्टे —
ते देवा इति ।
अचेतनाया वाचो नियोज्यत्वं वारयति —
वागभिमानिनीमिति ।
नियोक्तॄणां देवानामभिप्रायमाह —
वाग्देवतेति ।
नन्वौद्गात्रं कर्म जपमन्त्रप्रकाश्या देवता निर्वर्तयिष्यति न तु वाग्देवतेति तत्राऽऽह —
तामेवेति ।
असतो मा सद्गमयेति जपमन्त्राभिधेयां दृष्टवन्त इति पूर्वेण संबन्धः —
वागाद्याश्रयं कर्तृत्वादि दर्शयतोऽर्थवादस्य प्रासंगिकं तात्पर्यमाह —
अत्र चेति ।
आत्माश्रये कर्तृत्वादाववभासमाने तस्य वागाद्याश्रयत्वमयुक्तमित्याह —
कस्मादिति ।
परस्य जीवस्य वा कर्तृत्वादि विवक्षितमिति विकल्प्याऽऽद्यं दूषयति —
यस्मादिति ।
विचारदशायां वागादिसंघातस्य क्रियादिशक्तिमत्त्वात्कर्तृत्वादिस्तदाश्रयो यस्मात्प्रतीतस्तस्मात्परस्याऽऽत्मनः स्वतस्तच्छक्तिशून्यस्य न तदाश्रयत्वमित्यर्थः ।
किञ्चाविद्याश्रयः सर्वो व्यवहारो न तद्धीने परस्मिन्नवतरतीत्याह —
तद्विषय इति ।
“कर्ता शास्त्रार्थवत्त्वात्” इति न्यायेन कर्तृत्वमात्मनोऽङ्गीकर्तव्यमित्याशङ्क्य ‘यथा च तक्षोभयथा’(ब्र. सू. २.३.४०) इति न्यायादौपाधिकं तस्मिन्कर्तृत्वमित्यभिप्रेत्याऽऽह —
वक्ष्यति हीति ।
यदुक्तमविद्याविषयः सर्वो व्यवहार इति तत्र वाक्यशेषमनुकूलयति —
इहापीति ।
इतश्च परस्मिन्नात्मनि कर्तृत्वादिव्यवहारो नास्तीत्याह —
अव्याकृतात्त्विति ।
अनामरूपकर्मात्मकमित्यस्मादुपरिष्टात्तत्पदमध्याहर्तव्यं पृथगविद्याविषयात्क्रियाकारकफलजातादिति शेषः ।
मा भूत्परमात्मा कर्तृत्वाद्याश्रयो जीवस्तु स्यादिति द्वितीयमाशङ्क्याऽऽह —
यस्त्विति ।
जीवशब्दवाच्यस्य विशिष्टस्य कल्पितत्वान्न तात्त्विकं कर्तृत्वादिकं किन्तु तद्द्वारा स्वरूपे समारोपितमिति भावः ।
आत्मनि तात्त्विककर्तृत्वाद्यभावे फलितमर्थवादतात्पर्यमुपसम्हरति —
तस्मादिति ।
तात्पर्यमर्थवादस्योक्त्वा नियुक्तया वाग्देवतया यत्कृतं तदुपन्यस्यति —
तथेत्यादिना ।
उद्गातृत्वं जपमन्त्रप्रकाश्यत्वं चाऽऽत्मनोऽङ्गीकृत्य वागुद्गाने प्रवृत्ता चेत्तया कश्चिदुपकारो देवानामुद्गानेन निर्वर्तनीयः स च नास्तीति शङ्कते —
कः पुनरिति ।
वदनादिव्यापारे सति यः सुखविशेषसंघात्स निष्पद्यते स एव कार्यविशेष इत्याह —
उच्यत इति ।
यो वाचीति प्रतीकमादाय व्याख्यायते कथं पुनर्वाचो वचनं चक्षुषो दर्शनमित्यादिना निष्पन्नं फलं सर्वसाधारणमित्याशङ्क्यानुभवमनुसृत्याऽऽह —
सर्वेषामिति ।
किञ्च देवार्थमुद्गायन्त्या वाचः स्वार्थमपि किञ्चिदुद्गानमस्ति । तथा च ज्योतिष्टोमे द्वादश स्तोत्राणि तत्र त्रिषु पवमानाख्येषु स्तोत्रेषु याजमानं फलमुद्गानेन कृत्वा शिष्टेषु नवसु स्तोत्रेषु यत्कल्याणवदनसामर्थ्यं तदात्मने स्वार्थमेवाऽऽगायदित्याह —
तं भोगमिति ।
ऋत्विजां क्रीतत्वान्न फलसंबन्धः संभवतीत्याशङ्क्याऽऽह —
वाचनिकमिति ।
’अथाऽऽत्मनेऽन्नाद्यमागायत्’ इति श्रुतमित्यर्थः ।
कल्याणवदनसामर्थ्यस्य स्वार्थत्वं समर्थयते —
तद्धीति ।
कल्याणवदनं वाचोऽसाधारणं चेत्कस्तर्हि यो वाचीत्यादेर्विषयस्तत्राऽऽह —
यत्त्विति ।
वाग्देवतायामसुराणामवकाशं दर्शयति —
तत्रेति ।
स्वार्थे परार्थे चोद्गाने सतीति यावत् । कल्याणवदनस्याऽऽत्मना वाचैव संबन्धे योऽयमासंगोऽभिनिवेशः स एवावसरो देवतायास्तमवसरं प्राप्येत्यर्थः ।
अवसरमेव व्याकरोति —
रन्ध्रमिति ।
अस्मानतीत्येति संबन्धः ।
कोऽसावसुरात्ययस्तं व्याचष्टे —
स्वाभाविकमिति ।
तत्रोपायमुपन्यस्यति —
शास्त्रेति ।
असुरानभिभूय केनात्मना देवाः स्थास्यन्तीति विवक्षायामाह —
ज्योतिषेति ।
प्रजापतेर्वाचि पाप्मा क्षिप्तोऽसुरैरिति कुतोऽवगम्यते तत्राऽऽह —
स यः स पाप्मेति ।
प्रतिषिद्धवदनमेव पाप्मेत्ययुक्तमदृष्टस्य क्रियातिरिक्तत्वाङ्गीकारादित्याशङ्क्याऽऽह —
येनेति ।
असभ्यं सभानर्हं स्त्रीवर्णनादि । बीभत्सं भयानकं प्रेतादिवर्णनम् । अनृतमयथादृष्टवचनम् । आदिशब्दात्पिशुनत्वं गृह्यते ।
किमत्र प्रजापतेर्वाचि पाप्मसत्त्वे मानमुक्तं भवतीत्याशङ्क्य स एव स पाप्मेति व्याकरोति —
अनेनेति ।
प्राजापत्यासु प्रजासु प्रतिपन्नेनासत्यवदनादिना लिङ्गेन तद्वाचि पाप्माऽनुमीयते । विमतं कारणपूर्वकं कार्यत्वाद्घटवत् । न च प्रजागतं दुरितं प्राजापत्यं तद्विना हेत्वन्तरादेव स्यात्कारणानुविधायित्वात्कार्यस्य । न च तत्कारणेऽपि परस्मिन्प्रसंगः ‘अपापविद्धम्’(ई. उ. ८) इति श्रुतेः । न च ‘न ह वै देवान्पापं गच्छति’(बृ.उ.१।५।२०) इति श्रुतेर्न सूत्रेऽपि पापवेधस्तस्य फलावस्थस्यापापत्वेऽपि यजमानावस्थस्य तद्भावादित्यर्थः । आद्यसकाराभ्यां कारणस्थं पाप्मानमनूद्य तस्यैव कार्यस्थत्वमुच्यते । उत्तराभ्यां तु कार्यस्थं पाप्मानमनूद्य तस्यैव कारणस्थत्वमिति विभागम् ॥२॥