श्रुत्यनुभवाभ्यां वाक्योत्थज्ञानस्य फलवत्त्वदृष्टेर्युक्ता कार्यास्पृष्टे स्वार्थे तत्त्वमस्यादेर्मानतेत्युक्तं संप्रति शास्त्रस्य कार्यपरत्वानियमे हेत्वन्तरमाह —
प्रतिषिद्धेति ।
यद्यपि कलञ्जभक्षणादेरधःपातस्य च संबन्धो न कलञ्जं भक्षयेदित्यादिवाक्यात्प्रतीयते तथाऽपि तस्यानुष्ठेयत्वाद्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याऽऽह —
न चेति ।
संबन्धस्याभावार्थत्वान्नानुष्ठेयतेत्यर्थः ।
अभक्षणादि कार्यमिति विधिपरत्वमेव निषेधवाक्यस्य किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
तस्यापि कार्यार्थत्वे विधिनिषेधभेदभङ्गान्नञश्च स्वसंबन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौ लक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतो निषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात्प्रसक्तक्रियानिवृत्त्युपलक्षितादौदासीन्यादन्यदनुष्ठेयं न प्रतिभातीत्यर्थः ।
भावविषयं कर्तव्यत्वं विधीनामर्थोऽभावविषयं तु निषेधानामिति विशेषमाशङ्क्याऽह —
अकर्तव्यतेति ।
अभावस्य भावार्थत्वाभावात्कर्तव्यताविषयत्वासिद्धिरिति हिशब्दार्थः ।
प्रतिषेधज्ञानवतोऽपि कलञ्जभक्षणादिज्ञानदर्शनात्तन्निवृत्तेर्नियोगाधीनत्वात्तन्निष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह —
क्षुधार्तस्येति ।
विषलिप्तबाणहतस्य पशोर्मांसं कलञ्जं ब्रह्मवधाद्यभिशापयुक्तस्यान्नपानाद्यभोज्यं तस्मिन्नभक्ष्येऽभोज्ये च प्राप्ते यद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्य तद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह —
मृगतृष्णिकायामिति ।
तथाऽपि प्रवृत्त्यभावसिद्धये विधिरर्थ्यतामिति चेन्नेत्याह —
तस्मिन्निति ।
तदभावः प्रवृत्त्यभावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धेरित्यर्थः ।
दृष्टान्तमुपसंहरति —
तस्मादिति ।
दार्ष्टान्तिकमाह —
तथेति ।
न केवलं तत्त्वमस्यादिवाक्यानां सिद्धवस्तुमात्रपर्यवसानता किन्तु सर्वकर्मनिवर्तकत्वमपि सिद्ध्यतीत्याह —
तथेति ।
अकर्त्रभोक्तृब्रह्माहमितिज्ञानसंस्कृतस्य प्रवृत्तीनामभावः स्यादिति संबन्धः । अस्माद्ब्रह्मभावाद्विपरीतोऽर्थो यस्य कर्तृत्वादिज्ञानस्य तन्निमित्तानामनर्थार्थत्वेन ज्ञायमानत्वादिति हेतुः ।
कदा पुनस्तासामभावः स्यादत आह —
परमात्मादीति ।
भ्रान्तिप्राप्तभक्षणादिनिरासेन निवृत्तिनिष्ठतया निषेधवाक्यस्य मानत्ववत्तत्त्वमादेरपि प्रत्यगज्ञानोत्थकर्तृत्वादिनिवर्तकत्वेन मानत्वोपपत्तिरिति समुदायार्थः ।
दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाशङ्कते —
नन्विति ।
तस्य निषिद्धत्वादनर्थार्थत्वमेव यद्वस्तुयाथात्म्यं तज्ज्ञानेन निषेधे कृते तत्संस्करद्वारा संपादितस्मृत्या शास्त्रीयज्ञानेन विपरीतज्ञाने बाधिते तत्कार्यप्रवृत्त्यभावो निमित्ताभावे नैमित्तिकाभावन्यायेन युक्तो न तथाऽग्निहोत्रादिप्रवृत्त्यभावो युक्तः । ब्रह्मविदाऽग्निहोत्रादि न कर्तव्यमिति निषेधानुपलम्भादित्यर्थः ।
तत्त्वमस्यादिवाक्येनार्थान्निषिद्धमग्निहोत्रादीति मन्वानः साम्यमाह —
नेत्यादिना ।
शास्त्रीयप्रवृत्तीनां गर्भवासादिहेतुत्वादनर्थार्थत्वमहं कर्तेत्याद्यभिमानकृतत्वेन विपरीतज्ञाननिमित्तत्वम् ।
एतदेव दृष्टान्तावष्टम्भेन स्पष्टयति —
कलञ्जेति ।
काम्यानामज्ञानहेतुत्वानर्थार्थत्वाभ्यां विदुषस्तेषु प्रवृत्त्यभावो युक्तो नित्यानां तु शास्त्रमात्रप्रयुक्तानुष्ठानत्वान्नाज्ञानकृतत्वं प्रत्यवायाख्यानर्थध्वंसित्वाच्च नानर्थकरत्वमतस्तेषु प्रवृत्त्यभावो युक्तो न भवतीति शङ्कते —
नन्विति ।
नित्यानां शास्त्रमात्रकृतानुष्ठानत्वमसिद्धमिति परिहरति —
नेत्यादिना ।
तदेव प्रपञ्चयति —
यथेति ।
अविद्यादीत्यादिशब्देनास्मितादिक्लेशचतुष्टयोक्तिः । तैरविद्यादिभिर्जनितेष्टप्राप्तौ तादृगनिष्टप्राप्तौ च क्रमेण रागद्वेषवतः पुरुषस्येष्टप्राप्तिमनिष्टपरिहारं च वाञ्छतस्ताभ्यामेव रागद्वेषाभ्यामिष्टं मे भूयादनिष्टं मा भूदित्यविशेषकामनाभिः प्रेरिताविशेषप्रवृत्तियुक्तस्य नित्यानि विधीयन्ते । स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यानि । तुल्यं तूभयेषां केवलशास्त्रनिमित्तत्वमित्यर्थः ।
किं च काम्यानां दुष्टत्वं ब्रुवता नित्यानामपि तदिष्टमुत्पत्तिविनियोगप्रयोगाधिकारविधिरूपे विशेषाभावादित्याह —
न चेति ।
कथं तर्हि काम्यनित्यविभागस्तत्राऽऽह —
कर्तृगतेनेति ।
स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यविधिरिष्टं मे स्यादनिष्टं मा भूदित्यविशेषकामप्रेरिताविशेषितप्रवृत्तिमतो नित्यविधिरित्युक्तमित्यर्थः ।
नन्वविद्यादिदोषवतो नित्यानि कर्माणीत्ययुक्तं परमात्मज्ञानवतोऽपि यावज्जीवश्रुतेस्तेषामनुष्ठेयत्वादित्याशङ्क्य श्रुतेरविरक्तविषयत्वान्मैवमित्याह —
न परमात्मेति ।
“योगारूढस्य तस्यैव शमः कारणमुच्यते” इति स्मृतेर्ज्ञानपरिपाके कारणं कर्मोपशम एव प्रतीयते न तथा कर्मविधिरित्यर्थः ।
न केवलं विहितं नोपलभ्यते न संभवति चेत्याह —
कर्मनिमित्तेति ।
यदा नासि त्वं संसारी किन्त्वकर्त्रभोक्तृ ब्रह्मासीति श्रुत्या ज्ञाप्यते तदा देवतायाः संप्रदानत्वं करणत्वं व्रीह्यादेरित्येतत् सर्वमुपमृदितं भवति । तत्कथमकर्त्रादिज्ञानवतः संभवति कर्मविधिरित्यर्थः ।
उपमृदितमपि वासनावशादुद्भविष्यति । ततश्च विदुषोऽपि कर्मविधिः स्यादित्याशङ्क्याऽऽह —
न चेति ।
वासनावशादुद्भूतस्याऽऽभासत्वादात्मस्मृत्या पुनः पुनर्बाधाच्च विदुषो न कर्मप्रवृत्तिरित्यर्थः ।
किञ्चानवच्छिन्नं ब्रह्मास्मीति स्मरतस्तदात्मकस्य देशादिसापेक्षं कर्म निरवकाशमित्याह —
नहीति ।
विदुषो भिक्षाटनादिवत्कर्मावसरः स्यादिति शङ्कते —
भोजनादीति ।
अपरोक्षज्ञानवतो वा परोक्षज्ञानवतो वा भोजनादिप्रवृत्तिः ? नाऽऽद्यः । अनभ्युपगमात्तत्प्रवृत्तेर्बाधितानुवृत्तिमात्रत्वादग्निहोत्रादेरबाधिताभिमाननिमित्तस्य तथात्वानुपपत्तेरित्यभिप्रेत्याऽऽह —
नेति ।
न द्वितीयः । परोक्षज्ञानिनः शास्त्रानपेक्षक्षुत्पिपासादिदोषकृतत्वात्तत्प्रवृत्तेरिष्टत्वादित्याह —
अविद्यादीति ।
अग्निहोत्राद्यपि तथा स्यादिति चेन्नेत्याह —
न त्विति ।
भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तिं विवृणोति —
केवलेति ।
न तु तथेत्यादि प्रपञ्चयति —
शास्त्रनिमित्तेति ।
तर्हि शास्त्रविहितकालाद्यपेक्षत्वान्नित्यानामदोषप्रभवत्वं भवेदित्याशङ्क्याऽऽह —
दोषेति ।
एवं दोषकृतत्वेऽपि नित्यानां शास्त्रसापेक्षत्वात्कालाद्यपेक्षत्वमविरुद्धमित्याह —
एवमिति ।
भोजनादेर्दोषकृतत्वेऽपि ‘चातुर्वर्ण्यं चरेद्भैक्षं’ ‘यतीनां तु चतुर्गुणम्’ (मनु ५.१३७) इत्यादिनियमवद्विदुषोऽग्निहोत्रादिनियमोऽपि स्यादिति शङ्कते —
तद्भोजनादीति ।
विदुषो नास्ति भोजनादिनियमोऽतिक्रान्तविधित्वात् । न चैतावता यथेष्टचेष्टापत्तिः अधर्माधीनाऽविवेककृता हि सा । न च तौ विदुषो विद्येते अतोऽविद्यावस्थायामप्यसतीः यथेष्टचेष्टा विद्यादशायां कुतः स्यात् । संस्कारस्याप्यभावात् ।
बाधितानुवृत्तेश्च । अग्निहोत्रादेस्त्वनाभासत्वान्न बाधितानुवृत्तिरित्याह —
नेति ।
किञ्चाविदुषां विविदिषूणामेव नियमः । तेषां विधिनिषेधगोचरत्वात् । न च तेषामप्येष ज्ञानोदयपरिपन्थी । तस्यान्यनिवृत्तिरूपस्य स्वयङ्क्रियात्वाभावात् ।
नापि स क्रियामाक्षिपन्ब्रह्मविद्यां प्रतिक्षिपति । अन्यनिवृत्त्यात्मनस्तदाक्षेपकत्वासिद्धेरित्याह —
नियमस्येति ।
कर्मसु रागादिमतोऽधिकाराद्विरक्तस्य ज्ञानाधिकाराज्ञानिनो हेत्वभावादेव कर्माभावात्तस्य भोजनाद्यतुल्यात्वात्तत्त्वमादेः सर्वव्यापारोपरमात्मकज्ञानहेतोर्निवर्तकत्वेन प्रामाण्यं प्रतिपादितमुपसम्हरति —
तस्मादिति ।
तस्य विधिरुत्पादकं वाक्यम् । तस्य निषेधवाक्यवत्तत्त्वज्ञानहेतोस्तद्विरोधिमिथ्याज्ञानध्वंसित्वादशेषव्यापारनिवर्तकत्वेन कूटस्थवस्तुनिष्ठस्य युक्तं प्रामाण्यम् । मिथ्याज्ञानध्वंसे हेत्वभावे फलाभावन्यायेन सर्वकर्मनिवृत्तेरित्यर्थः ।
तत्पदोपात्तं हेतुमेव स्पष्टयति —
कर्मप्रवृत्तीति ।
यथा प्रतिषेध्ये भक्षणादौ प्रतिषेधशास्त्रवशात्प्रवृत्त्यभावस्तथा तत्त्वमस्यादिवाक्यसामर्थ्यात्कर्मस्वपि प्रवृत्त्यभावस्य तुल्यत्वात्प्रामाण्यमपि तुल्यमित्यर्थः ।
प्रतिषेधशास्त्रसाम्ये तत्त्वमस्यादिशास्त्रस्योच्यमाने तथैव निवृत्तिनिष्ठत्वं स्यान्न वस्तुप्रतिपादकत्वमित्याशङ्क्याऽऽह —
तस्मादिति ।
प्रतिषेधो हि प्रसक्तक्रियां निवर्तयंस्तदुपलक्षितौदासीन्यात्मके वस्तुनि पर्यवस्यति । तथा तत्त्वमस्यादिवाक्यस्यापि वस्तुप्रतिपादकत्वमविरुद्धमित्यर्थः । वेदान्तानां सिद्धे प्रामाण्यवदर्थवादादीनामन्यपराणामपि संवादविसंवादयोरभावे स्वार्थे मानत्वसिद्धौ सिद्धा विशुद्ध्यादिगुणवती प्राणदेवतेति चकारार्थः ॥१॥