ननु वेदान्तवेद्यं ब्रह्मेष्यते न च तेभ्यस्तद्धीः सिद्ध्यति तेषां विधिवैधुर्येणाप्रामाण्यात्तत्कुतो ब्रह्मसिद्धिरत आह —
क्रियार्थैश्चेति ।
विमतं स्वार्थे प्रमाणमज्ञातज्ञापकत्वात्सम्मतवत् । अतो वेदान्तशास्त्रादेव ब्रह्मसिद्धिरित्यर्थः ।
सिद्धसाध्यर्थभेदेन वैषम्यादविशिष्टत्वमनिष्टमित्याशङ्क्योक्तं विवृणोति —
यथा चेति ।
विशिष्टत्वं स्वरूपोपकारित्वं फलोपकारित्वं च । पञ्चमोक्तं प्रकारं पराम्रष्टुमेवमित्यादिष्टम् ।
अलौकिकत्वं साधयति —
प्रत्यक्षादीति ।
किञ्च वेदान्तानामप्रामाण्यं बुद्ध्यनुत्पत्तेर्वा संशयाद्युत्पत्तेर्वा ? नाऽऽद्य इत्याह —
न चेति ।
न द्वितीय इत्याह —
न चानिश्चितेति ।
कोटिद्वयास्पर्शित्वादबाधाच्चेत्यर्थः ।
क्रियार्थैर्वाक्यैर्विद्यार्थानां वाक्यानां साधर्म्यमुक्तमाक्षिपति —
अनुष्ठेयेति ।
साधर्म्यस्यायुक्तत्वमेव व्यनक्ति —
क्रियार्थैरिति ।
वाक्योत्थबुद्धेर्यथार्थत्वाद्विध्यभावेऽपि वाक्यप्रामाण्यमज्ञातज्ञापकत्वेनाविरुद्धमिति परिहरति —
न ज्ञानस्येति ।
अनुष्ठेयनिष्ठत्वमन्तरेण कुतो वस्तुनि प्रयोगप्रत्यययोस्तथार्थत्वमित्याशङ्क्य तयोर्विषयतया तथार्थत्वं तदपेक्षस्वप्रामाण्यार्थत्वं वेति विकल्प्याऽऽद्यं दूषयति —
न हीति ।
तदुभयविषयस्य कर्तव्यार्थस्य तथात्वं न कर्तव्यत्वापेक्षं किन्तु मानगम्यत्वादन्यथा विप्रलम्भकविधिवाक्येऽपि तथात्वापत्तेरित्यर्थः ।
द्वितीयं प्रत्याह —
न चेति ।
बुद्धिग्रहणं प्रयोगोपलक्षणार्थम् । कर्तव्यतार्थविषयप्रयोगादेर्नानुष्ठेयविषयत्वान्मानत्वं किन्तु प्रमाकरणत्वात्तज्जन्यत्वाच्चान्यथोक्तातिप्रसक्तितादवस्थ्यादतोऽनुष्ठेयनिष्ठत्वं मानत्वेऽनुपयुक्तमित्यर्थः ।
कुतस्तर्हि कार्याकार्यधियावित्याशङ्क्याऽऽह —
वेदेति ।
वैदिकस्यार्थस्याबाधेन तथार्थत्वे सिद्धे समीहितसाधनत्वविशिष्टं चेद्वस्तु तदा कर्तव्यमिति धियाऽनुतिष्ठति । तच्चेदनिष्टसाधनत्वविशिष्टं तदा न कार्यमिति धिया नानुतिष्ठति । अतो मानात्तस्यानुष्ठानाननुष्ठानहेतू कार्याकार्यधियावित्यर्थः ।
तथाऽपि ब्रह्मणो वाक्यार्थत्वं पदार्थत्वं वा ? नाऽऽद्य इत्याह —
अननुष्ठेययत्व इति ।
तस्याकार्यत्वेऽपि वाक्यार्थत्वं किं न स्यादित्याशङ्क्याह —
न हीति ।
उभयत्रासतीतिच्छेदः ।
द्वितीयं दूषयति —
पदार्थत्वे चेति ।
ब्रह्मणः शास्त्रार्थत्वमेतदित्युच्यते कार्यास्पृष्टेऽर्थे वाक्यप्रामाण्यं दृष्टान्तेन साधयति —
नेत्यादिना ।
शुक्लकृष्णलोहितमिश्रलक्षणं वर्णचतुष्टयं तद्विशिष्टो मेरुरस्तीत्यादिप्रयोगे मेर्वादावकार्येऽपि सम्यग्धीदर्शनात्तत्त्वमसिवाक्यादपि कार्यास्पृष्टे ब्रह्मणि सम्यग्ज्ञानसिद्धिरित्यर्थः ।
दृष्टान्तेऽपि कार्यधीरेव वाक्यादुदेतीत्याशङ्क्याऽऽह —
न चेति ।
ननु तत्र क्रियापदाधीना पदसंहतिर्युक्ता वेदान्तेषु पुनस्तदभावात्पदसंहत्ययोगात्कुतो वाक्यप्रमाणत्वं ब्रह्मणः संभवति तत्राऽऽह —
तथेति ।
विमतमफलं सिद्धार्थज्ञानत्वात्सम्मतवदित्यनुमानात्तत्त्वमादेः सिद्धार्थस्यायुक्तं मानत्वमिति शङ्कते —
मेर्वादीति ।
श्रुतिविरोधेनानुमानं धुनीते —
नेत्यादिना ।
विद्वदनुभवविरोधाच्च नैवमित्याह —
संसारेति ।
फलश्रुतेरर्थवादत्वेनामानत्वादनुमानबाधकतेत्याशङ्क्याऽऽह —
अनन्येति ।
पर्णमयीत्वाधिकरणन्यायेन जुह्वाः फलश्रुतेरर्थवादत्वं युक्तम् । ब्रह्मधियोऽन्यशेषत्वप्रापकाभावात्तत्फलश्रुतेरर्थवादत्वासिद्धिरिति । अन्यथा शारीरकानारम्भः स्यादित्यर्थः ।