वाग्देवताया जपमन्त्रप्रकाश्यत्वमुपास्यत्वञ्च नेति निर्धार्यावशिष्टपर्यायचतुष्टयस्य तात्पर्यमाह —
तथैवेति ।
परीक्षाफलनिर्णयमाह —
देवानाञ्चेति ।
अनुपास्यत्वे हीत्वन्तरमाह —
इतरेति ।
इतरः कार्यकरणसंघातस्तस्मिन्नव्यापकत्वं परिच्छिन्नत्वमतश्चानुपास्यत्वं जपमन्त्राप्रकाश्यत्वञ्चेत्यर्थः ।
उक्तैरिन्द्रियैरनुक्तेन्द्रियाण्युपलक्षणीयानीति विवक्षित्वोपसम्हरति —
एवमिति ।
वागादिवत्त्वगादिषु कल्पकाभावान्न पाप्मवेधोऽस्तीत्याशङ्क्याऽऽह —
कल्याणेति ।
पाप्मभिरुपासृजन्पाप्मनाऽविध्यन्नित्यनयोरस्ति पौनरुक्त्यमित्याशङ्क्य व्याख्यानव्याख्येयभावान्नैवमित्याह —
इति यदुक्तमिति ॥३ –४ –५ –६॥