संप्रति मुख्यप्राणस्य मन्त्रप्रकाश्यत्वमुपास्यत्वं च वक्तुमुत्तरवाक्यमुपादाय व्याकरोति —
वागादीति ।
क्रमेणोपासीना इति संबन्धः वागादिषु नैराश्यानान्तर्यमथशब्दार्थः ।
विवक्षितार्थज्ञापकोऽसाधारणो देहतदवयवव्यापारोऽभिनयः । दोषासंसर्गिणं दोषेण संसृष्टं कर्तृमिच्छा कुतो जातेत्याशङ्क्याऽऽह —
स्वेनेति ।
तदभ्यासानुवृत्त्या तस्य पाप्मसंसर्गकरणस्याभ्यासवशादिति यावत् ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति —
कथमित्यादिना ।
असुरनाशेनाऽऽसंगजनितपाप्मवियोगे हेतुमाह —
असंसर्गेति ।
वक्ष्यमाणं सोऽग्निरभवदित्यादिनेति शेषः ।
वागादीनां स्थितानां नष्टानां च कुतोऽग्न्यादिरूपत्वमित्याशङ्क्याह —
पूर्वमपीति ।
न तर्हि तेषां परिच्छेदाभिमानः स्यादित्याशङ्क्याऽऽह —
स्वाभाविकेनेति ।
परिच्छेदाभिमानादग्न्याद्यात्माभिमानस्य बलवत्त्वं सूचयति —
शास्त्रेति ।
न केवलमत्रोक्तानामेवासुराणामसंसर्गधर्मिप्राणाश्रयाद्विनाशः किन्तु तत्तुल्यजातीयानामपीत्यभिप्रेत्याऽऽह —
किञ्चेति ।
वागादीनामग्न्यादिभावापत्तिवचनेन तत्संहतस्य यजमानस्य देवताप्राप्तिरासुरपाप्मध्वंसश्च फलमित्युक्तं तत्र पूर्वकल्पीययजमानस्यातिशयशालित्वाद्यथोक्तफलवत्त्वेऽपि नेदानीन्तनस्यैवमित्याशङ्क्य भवतीत्यादिश्रुतिमवतारयति —
यथेति ।
पूर्वकल्पनाप्रकारेण पूर्वजन्मस्थो यजमानः शास्त्रप्रकाशितं वर्तमानप्रजापतित्वं प्रतिपन्नो यथेति संबन्धः । पूर्वयजमान इत्यस्य व्याख्या अतिक्रान्तकालिक इति ।
पुराकल्पमेव दर्शयति —
एतामिति ।
तेनेति श्रुत्युक्तेनेत्येतत् । तेनैव विधिना श्रुतिप्रकाशितेन क्रमेण मुख्यं प्राणमात्मत्वेनोपगम्येति शेषः ।
सपत्नो भ्रातृव्यस्तस्य द्विषन्निति कुतो विशेषणमर्थसिद्धत्वाद्द्वेषस्येत्याशङ्क्याऽऽह —
यत इति ।
तस्य द्वेष्टृत्वनियमे हेतुमाह —
पारमार्थिकेति ।
अपरिछिन्नदेवतात्वमत्र पारमार्थिकमात्मस्वरूपं विवक्षितं तत्तिरस्करणकारणत्वादुक्तपाप्मनो विशेषणमर्थवदिति शेषः ।
‘यदाग्नेयोऽष्टाकपाल’ इतिवद् ‘य एवं वेदे’ति प्रसिद्धार्थोपबन्धेऽपि विधिपरं वाक्यमतश्चैवं विद्यादिति विवक्षितमित्यभिप्रेत्याऽऽह —
यथोक्तमिति ॥७॥