कथं पाप्मा मृत्युरुच्यते तत्राऽऽह —
स्वाभाविकेति ।
अपहत्येत्यत्र पूर्ववदन्वयः ।
प्राणदेवता चेत्पाप्मनां हन्ति सदैव किं न हन्यादित्याशङ्क्याऽऽह —
प्राणात्मेति ।
भवतु प्राणो वागादीनां पाप्मनोऽपहन्ता विदुषस्तु किमायातमित्याशङ्क्याऽऽह —
विरोधादेवेति ।
अनन्ताकाशदेशत्वाद्दिशामन्ताभावाद्यत्राऽऽसामित्याद्ययुक्तमिति शङ्कते —
नन्विति ।
शास्त्रीयज्ञानकर्मसंस्कृतो जनो मध्यदेशः प्रसिद्धस्यापि तदधिष्ठितत्वेन मध्यदेशत्वात्तत्राप्यन्त्यजाधिष्ठितदेशस्य पापीयस्त्वस्वीकारादतस्तं जनं तदधिष्ठितं च देशमवधिं कृत्वा तेनैव निमित्तेन दिशां कल्पितत्वादानन्त्याभावात्पूर्वोक्तजनातिरिक्तजनस्य तदधिष्ठितदेशस्य चान्तत्वोक्तेर्मध्यदेशादन्यो देशो दिशामन्त इत्युक्ते न काचिदनुपपत्तिरिति परिहरति —
उच्यत इति ।
किमित्यन्त्यजनेष्वित्यधिकावापः क्रियते तत्राऽऽह —
इति सामर्थ्यादिति ।
देशमात्रे पाप्मावस्थानानुपपत्तेरित्यर्थः ।
तामेवानुपपत्तिं साधयति —
इन्द्रियेति ।
भवतु यथोक्तो दिशामन्तस्तथा च पाप्मसंसर्गोऽस्तु तथाऽपि किमायातमित्याशङ्क्य तस्य शिष्टैस्त्याज्यत्वमित्याह —
तस्मादिति ।
निषेधद्वयस्य तात्पर्यमाह —
जनशून्यमपीति ।
प्राणोपास्तिप्रकरणे निषेधश्रुतेस्तदुपासकेनैवायं निषेधोऽनुष्ठेयो न सर्वैरित्याशङ्क्याऽऽह —
नेदित्यादिना ।
इत्थं श्रुत्युक्तं निषेधं न चेदहं कुर्यां ततः पाप्मानमनुगच्छेयं निषेधातिक्रमादिति सर्वस्य भयं जायते न प्राणोपासकस्यैव । अतः सर्वोऽपि पापाद्भीतो नोभयं गच्छेद्वाक्यं हि प्रकरणाद्बलवदित्यर्थः ॥१०॥