द्विविधमुपास्तिफलं पापहानिर्देवताभावश्च । तत्र पापहानिमुपदिशता प्रासंगिकः, साधारणो निषेधो दर्शितः । संप्रति देवताभावं वक्तुमुत्तरवाक्यमिति प्रतीकोपादानपूर्वकमाह —
सा वा एषेति ।
अथशब्दावद्योतितमर्थं कथयति —
यस्मादिति ।
पाप्मापहन्तृत्वमनूद्यावशिष्टं भागं व्याचष्टे —
तस्मात्स एवेति ॥११॥