सामान्योक्तमर्थं विशेषेण प्रपञ्चयति —
स वै वाचमित्यादिना ।
कथं वाचः प्राथम्यं तदाह —
उद्गीथेति ।
वाचो मृत्युमतिक्रान्ताया रूपं प्रश्नपूर्वकं प्रदर्शयति —
तस्या इति ।
अनग्नेरग्नित्वविरोधं धुनीते —
सा वागिति ।