वागादीनामग्न्यादिदेवतात्वप्राप्तावुपासकस्य किमायातं न हि तदेव तस्य फलमित्याशङ्क्याऽऽह —
यथेति ।
देवतात्वप्रतिबन्धकान्पाप्मनः सर्वानपोह्योक्तवर्त्मना वागादीनामुपासकोपाधिभूतानामग्न्यादिदेवताप्त्यैव सोऽपि सदा प्राणमात्मत्वेन ध्यायन्भावनाबलाद्वैराजं पदं पूर्वयजमानवदाप्नोतीति भावः ।
कस्येदं फलमित्याकाङ्क्षायामुपासकं विशिनष्टि —
यो वागादीति ।
उक्तोपासनस्य प्रागुक्तं फलमनुगुणमित्यत्र मानमाह —
तं यथेति ॥१६॥