उपास्यस्य प्राणस्य कार्यकरणसंगातस्य विधारकत्वं नाम गुणान्तरं वक्तुमुत्तरवाक्यम् , तदादाय व्याकरोति —
अथेत्यादिना ।
कथमुद्गातुर्विक्रीतस्य फलसंबन्धस्तत्राऽऽह —
कर्तुरिति ।
अन्नागानमार्त्विज्यमित्यत्र प्रश्नपूर्वकं वाक्यशेषमनुकूलयति —
कथमित्यादिना ।
तमेव हेतुमाह —
यस्मादिति ।
प्राणेनैव तदद्यत इति संबन्धः । यस्मादित्यस्य तस्मादित्यादिभाष्येणान्वयः ।
अनितेर्धातोरनशब्दश्चेत्प्राणपर्यायस्तर्हि कथं शकटे तच्छब्दप्रयोगस्तत्राऽऽह —
अनःशब्द इति ।
इतश्च प्राणस्य स्वार्थमन्नागानं युक्तमित्याह —
किञ्चेति ।
प्राणेन वागादिवदात्मार्थमन्नमागीतं चेत्तर्हि तस्यापि पाप्मवेधः स्यादित्याशङ्क्याऽऽह —
यदपीति ।
इहान्ने देहाकारपरिणते प्राणस्तिष्ठति तदनुसारिणश्च वागादयः स्थितिभाजोऽतः स्थित्यर्थं प्राणस्यान्नमिति न पाप्मवेधस्तस्मिन्नस्तीत्यर्थः ॥१७॥