भर्ता श्रेष्ठः पुरो गन्तेत्यादिगुणविधानार्थं वाक्यान्तरमादत्ते —
ते देवा इति ।
तस्य विवक्षितमर्थं वक्तुमादावाक्षिपति —
नन्विति ।
अयुक्तत्वे हेतुमाह —
वागादीनामिति ।
अवधारणानुपपत्तिं दूषयति —
नैष दोष इति ।
यथा प्राणस्योपकारोऽन्नकृतो न वागादिद्वारकस्तथा तेषामपि नासौ प्राणद्वारको विशेषाभावादिति शङ्कते —
कथमिति ।
वाक्येन परिहरति —
एतमर्थमिति ।
आह विशेषमिति शेषः ।
तेषां देवत्वं साधयति —
स्वविषयेति ।
तत्र प्रसिद्धं प्रमाणयितुं वैशब्द इत्याह —
वा इति ।
स्मरणार्थ इति । तत्प्रसिद्धस्यार्थस्येति शेषः ।
वाक्यार्थमाह —
इदं तदिति ।
एतावत्त्वमेव व्याचष्टे —
तत्सर्वमिति ।
किमिदं प्राणार्थमन्नागानं नाम तदाह —
आगानेनेति ।
का पुनरेतावता भवतां क्षतिस्तत्राऽऽह —
वयञ्चेति ।
अन्नमन्तरेण ममापि स्थातुमशक्तेर्मददर्थं तदागीतमिति चेत्तत्राह —
अत इति ।
आभजस्वेति श्रूयमाणे कथमन्यथा व्याख्यायते तत्राऽऽह —
णिच इति ।
तवैवान्नस्वामित्वमस्माकमपि तत्र प्रवेशमात्रं स्थित्यर्थमपेक्षितमिति वाक्यार्थमाह —
अस्मांञ्चेति ।
वैशब्दो यद्यर्थे प्रयुक्तः ।
प्राणं परिवेष्ट्य तदनुज्ञया वागादीनामन्नार्थिनामवस्थानं चेत्तेषामपि प्राणवदन्नसंबन्धः स्यादित्याशङ्क्याऽऽह —
तथेति ।
त्यक्तप्राणस्यान्नबलाद्वागादिस्थित्यनुपलब्धेरित्यर्थः ।
वागादीनामन्नजन्योपकारस्य प्राणद्वारत्वे सिद्धे फलितमाह —
तस्मादिति ।
तेषामन्नकृतोपकारस्य प्राणद्वारकत्वे वाक्यशेषं संवादयति —
तदेवेति ।
विद्याफलं दर्शयन्गुणजातमुपदिशति —
वागादीति ।
वेदनमेव व्याचष्टे —
वागादयश्चेति ।
स च प्राणोऽहमस्मीति वेदेति चकारार्थः । अनामयावी व्याधिरहितो दीप्ताग्निरिति यावत् ।
संप्रति प्राणविद्यां स्तोतुं तद्विद्यावद्विद्वेषिणो दोषमाह —
किञ्चेति ।
इदानीं प्राणविदं प्रत्यनुरागे लाभं दर्शयति —
अथेत्यादिना ।
ते देवा अब्रुवन्नित्यादौ गुणविधिर्विवक्षितो न विशिष्टविधिर्गुणफलस्यैवात्र श्रवणादित्याह —
सर्वमेतदिति ।