प्रकारान्तरेण प्राणस्य सामत्वमुपासनार्थमुपन्यस्यति —
यदित्यादिना ।
प्रकारान्तरद्योती वाशब्दोऽत्र न श्रूयत इत्याशङ्क्याऽऽह —
वाशब्द इति ।
निमित्तान्तरमेव प्रश्नपूर्वकं प्रकटयति —
केनेत्यादिना ।
ननु प्राणस्य तत्तच्छरीरपरिमाणत्वे परिच्छिन्नत्वादानन्त्यानुपपत्तिस्तत्कथमस्य विरुद्धेषु शरीरेषु समत्वमित्याशङ्क्याऽऽह —
पुत्तिकादीति ।
समशब्दस्य यथाश्रुतार्थत्वं किं न स्यादित्याशङ्क्याऽऽह —
न पुनरिति ।
आधिदैविकेन रूपेणामूर्तत्वं सर्वगतत्वं च द्रष्टव्यम् ।
ननु प्रदीपो घटे संकुचति प्रासादे च विकसति तथा प्राणोऽपि मशकादिशरीरेषु संकोचमिभादिदेहेषु विकासं चाऽऽपद्यतामिति समत्वासिद्धिरित्याशङ्क्याऽऽह —
न चेति ।
प्राणस्य सर्वगतत्वे समत्वश्रुतिविरोधमाशङ्क्याऽऽह —
सर्वगतस्येति ।
खण्डादिषु गोत्ववच्छरीरेषु सर्वत्र स्थितस्य प्राणस्य तत्तच्छरीरपरिमाणाया वृत्तेर्लाभः । संभवति सर्वगतस्यैव नभसस्तत्र तत्र कूपकुम्भाद्यवच्छेदोपलम्भादित्यर्थः ।
फलश्रुतिमवतार्य व्याकरोति —
एवमिति ।
फलविकल्पे हेतुमाह —
भावनेति ।
वेदनं व्याकरोति —
आ प्राणेति ।
इदञ्च फलं मध्यप्रदीपन्यायेनोभयतः संबन्धमवधेयम् ॥२२॥