एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद ॥ २२ ॥
यत् उ एव समः तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, तस्माद्वा सामेत्यनेन सम्बन्धः । वा - शब्दः सामशब्दलाभनिमित्तप्रकारान्तरनिर्देशसामर्थ्यलभ्यः । केन पुनः प्रकारेण प्राणस्य तुल्यत्वमित्युच्यते — समः प्लुषिणा पुत्तिकाशरीरेण, समो मशकेन मशकशरीरेण, समो नागेन हस्तिशरीरेण, सम एभिस्त्रिभिर्लोकैः त्रैलोक्यशरीरेण प्राजापत्येन, समोऽनेन जगद्रूपेण हैरण्यगर्भेण । पुत्तिकादिशरीरेषु गोत्वादिवत्कार्त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य, न पुनः शरीरमात्रपरिमाणेनैव ; अमूर्तत्वात्सर्वगतत्वाच्च । न च घटप्रासादादिप्रदीपवत्सङ्कोचविकासितया शरीरेषु तावन्मात्रं समत्वम् । ‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (बृ. उ. १ । ५ । १३) इति श्रुतेः । सर्वगतस्य तु शरीरेषु शरीरपरिमाणवृत्तिलाभो न विरुध्यते । एवं समत्वात्सामाख्यं प्राणं वेद यः श्रुतिप्रकाशितमहत्त्वं तस्यैतत्फलम् — अश्नुते व्याप्नोति, साम्नः प्राणस्य, सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वम् , सालोक्यं समानलोकतां वा, भावनाविशेषतः, य एवमेतत् यथोक्तं साम प्राणं वेद — आ प्राणात्माभिमानाभिव्यक्तेरुपास्ते इत्यर्थः ॥