प्रस्तावादिशब्दवदुद्गीथशब्दस्यापि भक्तिविशेषे रूढत्वाद्दुगीथेनात्ययामेत्यत्र चौद्गात्रे कर्मणि प्रयुक्तत्वात्कथमुद्गीथः प्राण इत्याशङ्क्याऽऽह —
उद्गीथो नामेति ।
नञ्पदस्योभयतः संबन्धः ।
सामशब्दितस्य प्राणस्य प्रकृतत्वादिति हेतुमाह —
सामाधिकारादिति ।
न तावदुद्गीथशब्दस्य प्राणे रूढिस्तस्य तस्मिन्वृद्धप्रयोगादर्शनान्नापि योगोऽवयववृत्तेरदृष्टेरिति शङ्कते —
कथमिति ।
योगवृत्तिमुपेत्य परिहरति —
प्राण इति ।
उच्छब्दो नास्यार्थस्य वाचको निपातत्वादित्याशङ्क्याऽऽह —
उत्तब्धेति ।
तथाऽपि कथं प्राणो वा उदित्युक्तं तत्राऽह —
प्राणेति ।
’वायुर्वै गौतम तत्सूत्रम्’ इत्यादिश्रुतेरित्यर्थः ।
उद्गीथभक्तेः शब्दविशेषत्वेऽपि गीथा वागिति कथमुच्यते तत्राऽऽह —
गायतेरिति ।
अथावधारणं साधयति —
न हीति ।
तथाऽति कथं प्राणस्योद्गीथत्वमित्याशङ्क्य वागुपसर्जनस्य तस्य तथात्वं कथयति —
उच्चेति ॥२३॥