बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
उक्तार्थदार्ढ्यायाख्यायिकारभ्यते —
उक्तार्थदार्ढ्यायाख्यायिकारभ्यते —

तद्धापीत्यादिवाक्यस्य प्रकृतानुपयोगमाशङ्क्याऽऽह —

उक्तार्थेति ।

उद्गीथदेवता प्राणो न वागादिरित्युक्तार्थः । ‘जीवति तु वंशे युवा’(पा.सू. ४.१.१६३) इति स्मरणात्पित्रादौ वंश्ये जीवति पौत्रप्रभृतेर्यदपत्यं तद्युवसंज्ञकमिति द्रष्टव्यम् ।