उद्गीथदेवता प्राण एवेति निर्धार्य स्वसुवर्णप्रतिष्ठागुणविधानार्थमुत्तरकण्डिकात्रयमवतारयति —
तस्येत्यादिना ।
किमित्यादौ फलमभिलप्यते तत्राऽऽह —
फलेनेति ।
सौस्वर्यं स्म् भूषणमित्यत्रानुभवमनुकूलयति —
तेन हीति ।
कथं तर्हि कण्ठगतं माधुर्यं संपादनीयमित्याशङ्क्याऽऽह —
यस्मादिति ।
प्राणोऽहं ममैव गीतिभावमापन्नस्य सौस्वर्यं धनमिति प्रकृते प्राणविज्ञाने गुनविधिर्विवक्षितश्चेत्किमित्युद्गातुरन्यत्कर्तव्यमुपदिश्यत इत्याशङ्क्य दृष्टफलतयेत्याह —
इदं त्विति ।
अथेच्छायां कर्तव्यत्वेन विहितायां तावन्मात्रे सिद्धेऽपि कथं सौस्वर्यं सिध्येन्नहि स्वर्गकामनामात्रेण स्वर्गः सिध्यत्यत आह —
साम्न इति ।
तस्य सुस्वरत्वेन तच्छब्दितस्य प्राणस्योपासकात्मकस्य स्वरवत्त्वप्रत्यये कार्ये सति विहितेच्छामात्रेण साम्नः न सौस्वर्यं भवतीत्यस्मात्सामर्थ्याद्दन्तधावनादि कर्तव्यमित्येतदत्र विधित्सितमिति योजना ।
सौस्वर्यस्य सामभूषणत्वे गमकमाह —
तस्मादिति ।
दृष्टान्तमनन्तरवाक्यावष्टम्भेन स्पष्टयति —
प्रसिद्धं हीति ।
भवति हास्य स्वमिति प्रागेवोक्तत्वादनर्थिका पुनरुक्तिरित्याशङ्क्याऽऽह —
सिद्धस्येति ॥२५॥