साम्नो गुणान्तरमवतारयति —
अथेति ।
तर्हि पुनरुक्तिः स्यात्तत्राऽऽह —
एतावानिति ।
लाक्षणिकं कण्ठ्योऽयं वर्णो दन्त्योऽयमिति लक्षणज्ञानपूर्वकं सुष्ठु वर्णोच्चारणं ममैव सामशब्दितप्राणभूतस्य धनमिति यावत् ।
लाक्षणिकसौस्वर्यगुणवत्प्राणविज्ञानवतो यथोक्तफललाभे हेतुमाह —
सुवर्णशब्देति ।
वाक्यार्थमाह —
लौकिकमेवेति ।
फलेन प्रलोभ्याभिमुखीकृत्य किं तत्सुवर्णमिति शुश्रूषवे ब्रूते —
तस्येति ।
गुणविज्ञानफलमुपसम्हरति —
भवतीति ।
साम्नस्तच्छब्दवाच्यस्य प्राणस्य स्वरूपभूतस्येति यावत् ॥२६॥