उपास्यस्य प्रतिष्ठागुणत्वेऽपि कथमुपासकस्य तद्गुणत्वं तत्राऽऽह —
तं यथेति ।
आदिपदादुरःशिरःकण्ठदन्तौष्ठनासिकातालूनि गृह्यन्ते ।
किमित्यष्टौ स्थानानि वागित्युच्यन्ते तत्राऽऽह —
वाचि हीति ।
पक्षान्तरमाह —
अन्न इति ।
अन्नशब्देन तत्परिणामो देहो गृह्यते ।
एकीयपक्षे युक्तिमाह —
इहेति ।
कथं तर्हि प्रतिष्ठागुणस्य प्राणस्य विज्ञानं कर्तव्यमत आह —
अनिन्दितत्वादिति ॥२७॥