अथातः पवमानानामित्यादिवाक्यमवतारयति —
एवमिति ।
तत्राथशब्दं व्याचष्टे —
यद्विज्ञानवत इति ।
अतःशब्दार्थमाह —
यस्माच्चेति ।
इहेति प्राणविदुक्तिः ।
कदा तर्हि जपकर्म कर्तव्यं तत्राऽऽह —
तस्येति ।
उद्गीथेनात्ययाम त्वं न उद्गायेति च प्रकरणादुद्गीथेन संबन्धाज्जपस्य सर्वत्रोद्गानकाले प्राप्तौ पवमानानामेवेति वचनात्कालनियमसिद्धिरित्यर्थः ।
स वै खल्वित्यादिवाक्यतात्पर्यमाह —
पवमानेष्विति ।
ननु कर्तव्यत्वेनाभ्यारोहः श्रूयते जपकर्म विधित्सितमिति चोच्यते किं केन संगतमित्याशङ्क्याऽऽह —
अस्य चेति ।
अभ्यारोहशब्दस्य न तत्र रूढिर्वृद्धप्रयोगाभावादित्याशङ्क्याऽऽह —
आभिमुख्येनेति ।
यजुर्मन्त्राणामनियतपादाक्षरत्वादसतो मा सद्गमयेत्यारभ्यैको वा द्वौ वा मन्त्रावित्याशङ्क्याऽऽह —
एतानीति ।
यद्यमी याजुषा मन्त्रास्तर्हि मान्त्रेण स्वरेण वैभाषिकग्रन्थोक्तेन भाव्यमित्याशङ्क्याऽऽह —
द्वितीयेति ।
यत्र स्वरो विवक्षितस्तत्र तृतीयानिर्देशो दृश्यते । ‘उच्चैरृचा क्रियत उच्चैः साम्नोपांशु यजुषा’(मै.सं.३.६.) इति । प्रकृते तु द्वितीयानिर्देशाज्जपकर्ममात्रं प्रतीयते मान्त्रस्तु स्वरो न प्रतिभातीत्यर्थः ।
केन तर्हि स्वरेण प्रयोगो मन्त्राणामिति चेत्तत्राऽऽह —
ब्राह्मणेति ।
भवतु शातपथेन स्वरेण मन्त्राणां प्रयोगस्तथाऽपि किमार्त्विज्यं किंवा याजमानं जपकर्मेति वीक्षायामाह —
याजमानमिति ।