व्याचिख्यासितयजुषां स्वरूपं दर्शयति —
एतानीति ।
मन्त्रार्थशब्देन पदार्थो वाक्यार्थस्तत्फलं चेति त्रयमुच्यते ।
लौकिकं तमो व्यावर्तयति —
सर्वं हीति ।
पूर्वोक्तपदेन व्याख्यातं तमो गृह्यते ।
वैपरीत्ये हेतुमाह —
प्रकाशात्मकत्वादिति ।
ज्ञानं तेन साध्यमिति यावत् । पदार्थोक्तिसमाप्तावितिशब्दः ।
उत्तरवाक्याभ्यां वाक्यार्थस्तत्फलं चेति द्वयं क्रमेणोच्यत इत्याह —
पूर्ववदिति ।
फलवाक्यमादाय पूर्वस्माद्विशेषं दर्शयति —
अमृतमिति ।
प्रथमद्वितीयमन्त्रयोरर्थभेदाप्रतीतेः पुनरुक्तिमाशङ्क्यावान्तरभेदमाह —
पूर्वो मन्त्र इति ।
तथाऽपि तृतीये मन्त्रे पुनरुक्तिस्तदवस्थेत्याशङ्क्याऽऽह —
पूर्वयोरिति ।