वृत्तमनूद्योत्तरवाक्यमवतार्य व्याचष्टे —
याजमानमिति ।
यथा प्राणस्त्रिषु पवमानेषु साधारणमागानं कृत्वा शिष्टेषु स्तोत्रेषु स्वार्थमागानमकरोत्तथेत्याह —
प्राणविदिति ।
तद्विदोऽपि तद्वदागाने योग्यतामाह —
प्राणभूत इति ।
हेतुवाक्यमादौ योजयति —
यस्मादिति ।
प्रतिज्ञावाक्यं व्याचष्टे —
तस्मादिति ।
किमिति व्यत्यासेन वाक्यद्वयव्याख्यानमित्याशङ्क्यार्थाच्चेति न्यायेन पाठक्रममनादृत्येति परिहरति —
यस्मादित्यादिना ।
स एष एवंविदुद्गाताऽऽत्मने यजमानाय वा यं कामं कामयते तमागानेन साधयति यस्मादिति हेतुग्रन्थस्तस्मादिति प्रतिज्ञाग्रन्थात्प्रागेव संबध्यत इति योजना ।