कर्मसमुच्चितादुपासनात्केवलाच्च प्राणात्मत्वं फलमुक्तं तत्र समुच्चितादुद्गातुर्यजमानस्य वा फलं केवलाच्चोपासनात्तयोरन्यतरस्यान्यस्य वा कस्यचिदिति जिज्ञासमानः शङ्कते —
कस्येति ।
ज्ञानकर्मणोरुभयत्र समभावादुभयोरपि वचनात्फलसिद्धिः ।
आश्रमान्तरविषयं तु केवलज्ञानस्य लोकजयहेतुत्वमित्यभिप्रेत्याऽऽह —
य एवमिति ।
एवंशब्दस्य प्रकृतपरामर्शित्वात्पूर्वोक्तं सर्वं वेद्यस्वरूपं संक्षिपति —
अहमस्मीत्यादिना ।
तस्य वागादिभ्यो विशेषं दर्शयति —
इन्द्रियेति ।
किमिदानीं प्राणस्यैवोपास्यतया वागादिपञ्चकमुपेक्षितमिति नेत्याह —
वागादीति ।
तस्य प्राणाश्रयत्वेऽपि कुतो देवतात्वमासंगपाप्मविद्धत्वादित्याशङ्क्याऽऽह —
स्वाभाविकेति ।
अन्नकृतोपकारं प्राणद्वारा वागादौ स्मारयति —
सर्वेति ।
रूपकर्मात्मके जगति प्राणस्य स्वरूपमनुसन्धत्ते —
आत्मा चेति ।
नामात्मके जगति प्राणस्याऽऽत्मत्वमुक्तं स्मारयति —
ऋगिति ।
सति सामत्वे गीतिभावावस्थायां प्राणस्योक्तं बाह्यमान्तरं च सौस्वर्यं सौवर्ण्यमिति गुणद्वयमनुवदति —
ममेति ।
तस्यैव वैकल्पिकीं प्रतिष्ठामुक्तामनुस्मारयति —
गीतीति ।
य एवमित्यादिनोक्तं परामृशति —
एवङ्गुणोऽहमिति ।
इत्येवमभिमानाभिव्यक्तिपर्यन्तं यो ध्यायति तस्येदं फलमित्युपसम्हरति —
इतीति ॥२८॥