बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
आत्मैवेदमग्र आसीत्पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहन्नामाभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १ ॥
आत्मैवेदमग्र आसीत् । ज्ञानकर्मभ्यां समुच्चिताभ्यां प्रजापतित्वप्राप्तिर्व्याख्याता ; केवलप्राणदर्शनेन च — ‘तद्धैतल्लोकजिदेव’ इत्यादिना । प्रजापतेः फलभूतस्य सृष्टिस्थितिसंहारेषु जगतः स्वातन्त्र्यादिविभूत्युपवर्णनेन ज्ञानकर्मणोर्वैदिकयोः फलोत्कर्षो वर्णयितव्य इत्येवमर्थमारभ्यते । तेन च कर्मकाण्डविहितज्ञानकर्मस्तुतिः कृता भवेत्सामर्थ्यात् । विवक्षितं त्वेतत् — सर्वमप्येतज्ज्ञानकर्मफलं संसार एव, भयारत्यादियुक्तत्वश्रवणात्कार्यकरणलक्षणत्वाच्च स्थूलव्यक्तानित्यविषयत्वाच्चेति । ब्रह्मविद्यायाः केवलाया वक्ष्यमाणाया मोक्षहेतुत्वमित्युत्तरार्थं चेति । न हि संसारविषयात्साध्यसाधनादिभेदलक्षणादविरक्तस्यात्मैकत्वज्ञानविषयेऽधिकारः, अतृषितस्येव पाने । तस्माज्ज्ञानकर्मफलोत्कर्षोपवर्णनमुत्तरार्थम् । तथा च वक्ष्यति — ‘तदेतत्पदनीयमस्य’ (बृ. उ. १ । ४ । ७) ‘तदेतत्प्रेयः पुत्रात्’ (बृ. उ. १ । ४ । ८) इत्यादि ॥

ब्राह्मणान्तरमवतार्य पूर्वेण संबन्धं वक्तुं वृत्तं कीर्तयति —

आत्मैवेत्यादिना ।

केवलप्राणदर्शनेन च प्रजापतित्वप्राप्तिर्व्याख्यातेति संबन्धः ।

इदानीमात्मेत्यादेस्तद्धेदमित्यतः प्राक्तनग्रन्थस्याऽऽपाततस्तात्पर्यमाह —

प्रजापतेरिति ।

आदिपदेन सर्वात्मत्वादि गृह्यते ।

फलोत्कर्षोपवर्णनं कुत्रोपयुज्यते तत्राऽऽह —

तेन चेति ।

कर्मकाण्डपदेन पूर्वग्रन्थोऽपि संगृहीतः ।

फलातिशयो हेत्वतिशयापेक्षोऽन्यथाऽऽकस्मिकत्वापातादतो ज्ञानकर्मफलभूतसूत्रविभूतिरुच्यमाना ज्ञानकर्मणोर्महत्त्वं दर्शयतीत्याह —

सामर्थ्यादिति ।

आपातिकं तात्पर्यमुक्त्वा परमतात्पर्यमाह —

विवक्षितं त्विति ।

किञ्च विमतं संसारान्तर्भूतं कार्यकरणात्मत्वादस्मदादिकार्यकरणवदित्याह —

कार्येति ।

प्राजापत्यपदस्य संसारान्तर्भूतत्वे हेत्वन्तरमाह —

स्थूलेति ।

स्थूलत्वं साधयति —

व्यक्तेति ।

अनित्यत्वाद्दृश्यत्वाच्च प्रजापतित्वं संसारान्तर्गतमित्याह —

अनित्येति ।

इतिशब्दो विवक्षितार्थसमाप्त्यर्थः ।

किमित्येतद्विवक्षितमुपवर्ण्यते तत्राऽऽह —

ब्रह्मविद्याया इति ।

तच्चेदं विवक्षितार्थवचनमेकाकिन्या विद्याया वक्ष्यमाणाया मुक्तिहेतुत्वमित्युत्तरार्थमिति द्रष्टव्यम् । यदा हि कर्मज्ञानफलं प्रजापतित्वं संसार इत्युच्यते तदा तत्पर्यन्तात्सर्वस्मात्तस्माद्विरक्तस्य वक्ष्यमाणविद्यायामधिकारः सेत्स्यतीत्यर्थः ।

अथ यस्य कस्यचिदर्थितामात्रेण तत्राधिकारसंभवाद्वैराग्यं न मृग्यमित्याशङ्क्याऽऽह —

न हीति ।

उभयत्रापि विषयशब्दः पूर्वेण समानाधिकरणः ।

विवक्षितमर्थमुपसम्हरति —

तस्मादिति ।

वैराग्यमन्तरेण ज्ञानानधिकाराज्ज्ञानादिफलस्य प्रजापतित्वस्योत्कर्षवतः संसारत्ववचनं ततो विरक्तस्य वक्ष्यमाणविद्यायामधिकारार्थम् ।

विरक्तस्य विद्याधिकारे मोक्षादपि वैराग्यं स्यादित्याशङ्क्याऽऽह —

तथा चेति ।

ननु मोक्षार्थं विद्यायां प्रवर्तितव्यं मोक्षश्चापुरुषार्थत्वान्न प्रेक्षावता प्रार्थ्यते तत्राऽऽह —

तदेतदिति ।