आत्मैवेदमग्र आसीत्पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहन्नामाभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १ ॥
आत्मैव आत्मेति प्रजापतिः प्रथमोऽण्डजः शरीर्यभिधीयते । वैदिकज्ञानकर्मफलभूतः स एव — किम् ? इदं शरीरभेदजातं तेन प्रजापतिशरीरेणाविभक्तम् आत्मैवासीत् अग्रे प्राक्शरीरान्तरोत्पत्तेः । स च पुरुषविधः पुरुषप्रकारः शिरःपाण्यादिलक्षणो विराट् ; स एव प्रथमः सम्भूतोऽनुवीक्ष्यान्वालोचनं कृत्वा — ‘कोऽहं किंलक्षणो वास्मि’ इति, नान्यद्वस्त्वन्तरम् , आत्मनः प्राणपिण्डात्मकात्कार्यकरणरूपात् , नापश्यत् न ददर्श । केवलं त्वात्मानमेव सर्वात्मानमपश्यत् । तथा पूर्वजन्मश्रौतविज्ञानसंस्कृतः ‘सोऽहं प्रजापतिः, सर्वात्माहमस्मि’ इत्यग्रे व्याहरत् व्याहृतवान् । ततः तस्मात् , यतः पूर्वज्ञानसंस्कारादात्मानमेवाहमित्यभ्यधादग्रे तस्मात् , अहन्नामाभवत् ; तस्योपनिषदहमिति श्रुतिप्रदर्शितमेव नाम वक्ष्यति ; तस्मात् , यस्मात्कारणे प्रजापतावेवं वृत्तं तस्मात् , तत्कार्यभूतेषु प्राणिष्वेतर्हि एतस्मिन्नपि काले, आमन्त्रितः कस्त्वमित्युक्तः सन् , ‘अहमयम्’ इत्येवाग्रे उक्त्वा कारणात्माभिधानेनात्मानमभिधायाग्रे, पुनर्विशेषनामजिज्ञासवे अथ अनन्तरं विशेषपिण्डाभिधानम् ‘देवदत्तः’ ‘यज्ञदत्तः’ वेति प्रब्रूते कथयति — यन्नामास्य विशेषपिण्डस्य मातापितृकृतं भवति, तत्कथयति । स च प्रजापतिः, अतिक्रान्तजन्मनि सम्यक्कर्मज्ञानभावनानुष्ठानैः साधकावस्थायाम् , यद्यस्मात् , कर्मज्ञानभावनानुष्ठानैः प्रजापतित्वं प्रतिपित्सूनां पूर्वः प्रथमः सन् , अस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्सर्वस्मात् , आदौ औषत् अदहत् ; किम् ? आसङ्गाज्ञानलक्षणान्सर्वान्पाप्मनः प्रजापतित्वप्रतिबन्धकारणभूतान् ; यस्मादेवं तस्मात्पुरुषः — पूर्वमौषदिति पुरुषः । यथायं प्रजापतिरोषित्वा प्रतिबन्धकान्पाप्मनः सर्वान् , पुरुषः प्रजापतिरभवत् ; एवमन्योऽपि ज्ञानकर्मभावनानुष्ठानवह्निना केवलं ज्ञानबलाद्वा ओषति भस्मीकरोति ह वै सः तम् — कम् ? योऽस्माद्विदुषः पूर्वः प्रथमः प्रजापतिर्बुभूषति भवितुमिच्छति तमित्यर्थः । तं दर्शयति — य एवं वेदेति ; सामर्थ्याज्ज्ञानभावनाप्रकर्षवान् । नन्वनर्थाय प्राजापत्यप्रतिपित्सा, एवंविदा चेद्दह्यते ; नैष दोषः, ज्ञानभावनोत्कर्षाभावात् प्रथमं प्रजापतित्वप्रतिपत्त्यभावमात्रत्वाद्दाहस्य । उत्कृष्टसाधनः प्रथमं प्रजापतित्वं प्राप्नुवन् न्यूनसाधनो न प्राप्नोतीति, स तं दहतीत्युच्यते ; न पुनः प्रत्यक्षमुत्कृष्टसाधनेनेतरो दह्यते — यथा लोके आजिसृतां यः प्रथममाजिमुपसर्पति तेनेतरे दग्धा इवापहृतसामर्थ्या भवन्ति, तद्वत् ॥