बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सोऽबिभेत्तस्मादेकाकी बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभेष्यद्द्वितीयाद्वै भयं भवति ॥ २ ॥
सोऽबिभेत् । सः प्रजापतिः, योऽयं प्रथमः शरीरी पुरुषविधो व्याख्यातः सः, अबिभेत् भीतवान् अस्मदादिवदेवेत्याह । यस्मादयं पुरुषविधः शरीरकरणवान् आत्मनाशविषयविपरीतदर्शनवत्त्वादबिभेत् , तस्मात्तत्सामान्यादद्यत्वेऽप्येकाकी बिभेति । किञ्चास्मदादिवदेव भयहेतुविपरीतदर्शनापनोदकारणं यथाभूतात्मदर्शनम् । सोऽयं प्रजापतिः ईक्षाम् ईक्षणं चक्रे कृतवान्ह । कथमित्याह — यत् यस्मात् मत्तोऽन्यत् आत्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वन्द्वीभूतं नास्ति, तस्मिन्नात्मविनाशहेत्वभावे, कस्मान्नु बिभेमि इति । तत एव यथाभूतात्मदर्शनादस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत् । तस्य प्रजापतेर्यद्भयं तत्केवलाविद्यानिमित्तमेव परमार्थदर्शनेऽनुपपन्नमित्याह — कस्माद्ध्यभेष्यत् ? किमित्यसौ भीतवान् ? परमार्थनिरूपणायां भयमनुपपन्नमेवेत्यभिप्रायः । यस्माद्द्वितीयाद्वस्त्वन्तराद्वै भयं भवति ; द्वितीयं च वस्त्वन्तरमविद्याप्रत्युपस्थापितमेव । न ह्यदृश्यमानं द्वितीयं भयजन्मनो हेतुः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति मन्त्रवर्णात् । यच्चैकत्वदर्शनेन भयमपनुनोद, तद्युक्तम् ; कस्मात् ? द्वितीयाद्वस्त्वन्तराद्वै भयं भवति ; तदेकत्वदर्शनेन द्वितीयदर्शनमपनीतमिति नास्ति यतः ॥

अहमेकाकी कोऽपि मां हनिष्यतीत्यात्मनाशविषयविपरीतज्ञानवत्त्वात्प्रजापतिर्भीतवानित्यत्र किं प्रमाणमित्याशङ्क्य कार्यगतेन भयलिङ्गेन कारणे प्रजापतौ तदनुमेयमित्याह —

यस्मादिति ।

तत्सामान्यादेकाकित्वाविशेषादिति यावत् ।

प्रजापतेः संसारान्तर्भूतत्वे हेत्वन्तरमाह —

किञ्चेति ।

यथाऽस्मदादिभी रज्जुस्थाण्वादौ सर्पपुरुषादिभ्रमजनितभयनिवृत्तये विचारेण तत्त्वज्ञानं संपाद्यते तथा प्रजापतिरपि भयस्य तद्धेतोश्च विपरीतधियो ध्वस्तिहेतुं तत्त्वज्ञानं विचार्य संपादितवानित्यर्थः ।

परमार्थदर्शनमेव प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

तस्मिन्नित्यत्र तस्मादित्यादि पठितव्यम् ।

मच्छब्दोपलक्षितं प्रत्यक्चैतन्यमद्वितीयब्रह्मरूपेण ज्ञात्वा सहेतुं भीतिं प्रजापतिरक्षिपदित्युक्तमिदानीं तत्त्वज्ञानफलमाह —

तत इति ।

कस्माद्धीत्यादेरुत्तरस्य पूर्वेण पौनरुक्त्यमित्याशङ्क्य विदुषो हेत्वभावान्न भयमित्युक्तसमर्थनार्थत्वादुत्तरस्य नैवमित्याह —

तस्येत्यादिना ।

अनुपपत्तौ हेतुमाह —

यस्मादिति ।

परमार्थदर्शनेऽपि वस्त्वन्तरात्किमिति भयं न भवतीत्याशङ्क्याऽऽह —

द्वितीयञ्चेति ।

अन्वयव्यतिरेकाभ्यां द्वैतस्याविद्याप्रत्युपस्थापितत्वेऽपि कुतस्तदुत्थद्वैतदर्शनं भयकारणं न भवतीत्याशङ्क्याऽऽह —

न हीति ।

तत्त्वज्ञाने सत्यायोगात्तदुत्थं द्वैतं तद्दर्शनं चायुक्तमित्यतो हेत्वभावाद्भयानुपपत्तिरित्यर्थः ।

अद्वैतज्ञाने भयनिवृत्तिरित्यत्र मन्त्रं संवादयति —

तत्रेति ।

विराडैक्यदर्शनेनैव प्रजापतेर्भयमपनीतं नाद्वैतदर्शनेनेत्यस्मिन्नर्थेऽपि यन्मदन्यन्नास्तीत्यादि शक्यं व्याख्यातुमित्याशङ्क्याङ्गीकुर्वन्नाह —

यच्चेति ।

तदेव प्रश्नद्वारा प्रकटयति —

कस्मादित्यादिना ।