प्रथमव्याख्यानानुसारेण चोद्यमुत्थापयति —
अत्रेति ।
प्रजापतेर्ब्रह्मात्मैक्यज्ञानाद्भीतिध्वस्तिरुक्ता न च तस्य तज्ज्ञानं युक्तं हेत्वभावादित्याह —
कुत इति ।
यस्मादस्माकमैक्यधीस्तस्मादेव तस्यापि स्यादित्याशङ्क्याऽऽह —
को वेति ।
न हि तस्य शास्त्रश्रवणमाचार्याभावान्नापि संन्यासस्तस्य त्रैवर्णिकविषयत्त्वान्नापि शमादि ऐश्वर्यासक्तत्वादतोऽस्मासु प्रसिद्धश्रवणादिविद्याहेत्वभावान्न प्रजापतेरैक्यधीर्युक्तेत्यर्थः ।
उपदेशानपेक्षमेव प्रजापतेरैक्यज्ञानं प्रादुर्भूतमिति शङ्कते —
अथेति ।
अतिप्रसक्त्या प्रत्याह —
अस्मदादेरिति ।
प्रजापतेर्यजमानावस्थायामाचार्यस्य सत्त्वाच्छ्रवणाद्यावृत्तेरैक्यज्ञानोदयात्तत्संस्कारोत्थं तथाविधमेव तज्ज्ञानं फलावस्थायामपि स्यादिति चोदयति —
अथेति ।
दूषयति —
एकत्वेति ।
अज्ञानध्वंसित्वेनार्थवत्त्वमित्याशङ्क्याऽऽह —
यथेति ।
तत्र गमकमाह —
यत इति ।
दार्ष्टान्तिकमाह —
एवमिति ।
नन्वस्मिन्नेव जन्मनि प्रजापतेरैक्यधीरनपेक्षा जायते ‘ज्ञानमप्रतिघं यस्य’ इति स्मृतेः । न च तदुत्पत्त्यनन्तरमेव सहेतुं बन्धनं निरुणद्धि भयारत्यादिफलेन प्रारब्धकर्मणा प्रतिबन्धादतो मरणकालिकं तदज्ञानध्वंसीति शङ्कते —
अन्त्यमेवेति ।
प्रवृत्तफलस्य कर्मणः स्वोपपादकाज्ञानलेशाद्विज्ञानशक्तिप्रतिबन्धकत्वेऽपि, जन्मान्तरसर्वसंसारहेत्वज्ञानध्वंसिज्ञानसामर्थ्यप्रतिबन्धकत्वे मानाभावान्मध्ये जातं ज्ञानमनिवर्तकमित्यशक्यं वक्तुम् । अन्त्यस्य च ज्ञानस्य निवर्तकत्वे नान्त्यत्वं हेतुः । यजमानान्तरस्यान्त्ये ज्ञाने तद्ध्वंसित्वादृष्टेरन्त्यत्वस्याज्ञानध्वंसित्वेनानियमात् । न च यजमानान्तरे प्रजापतौ चान्त्यं ज्ञानं ज्ञानत्वादज्ञानध्वंसि, पूर्वज्ञानेषु बन्धहेत्वज्ञानध्वंसित्वादृष्टेर्ज्ञानत्वहेतोरनैकान्त्यात् । न चान्त्यमैक्यज्ञानमैक्यज्ञानत्वादज्ञानध्वंसीति युक्तम् । उपान्त्यतादृग्ज्ञानवदन्त्येऽपि तदयोगात् ।
उपान्त्ये हेतोरनैकान्त्यादित्यभिप्रेत्य दूषयति —
नेत्यादिना ।
क्लृप्तकारणाभावात्तदन्तरेण चोत्पत्तावतिप्रसंगात्संस्काराधीनत्वेऽपि विशेषाभावादन्त्यस्य च ज्ञानस्याज्ञानध्वंसित्वासिद्धेरयुक्तं प्रजापतेरेकत्वदर्शनमित्युपसम्हरति —
तस्मादिति ।