प्रजापतेः सुप्तप्रतिबुद्धवत्प्रकृष्टादृष्टोत्थकार्यकरणवत्त्वात्पूर्वकल्पीयपदपदार्थवाक्यस्मरणवतः स्मृतिविपरिवर्तिनो वाक्याद्विचार्यमाणाददृष्टसहकृतात्तत्त्वज्ञानं स्याल्लोके विशिष्टादृष्टोत्थकार्यकरणानां प्रज्ञाद्यतिशयदर्शनात्तेन च ज्ञानेन जन्मान्तरहेत्वविद्याक्षयेऽप्यारब्धं कर्म तज्जं भयारत्याद्यविद्यालेशतो भविष्यतीति परिहरति —
नैष दोष इति ।
संगृहीतमर्थं समर्थयते —
यथेत्यादिना ।
धर्मादिचतुष्टयाद्विपरीतमधर्मादिचतुष्टयं तत्र हेतोः सर्वस्य पाप्मनो ज्ञानाद्यतिशयेन नाशादिति यावत् । उत्कृष्टत्वं प्रकृष्टज्ञानादिशालित्वम् ।
उक्तजन्मफलमाह —
तदुद्भवञ्चेति ।
तस्य ज्ञानादिवैशारद्ये पौराणिकीं स्मृतिमुदाहरति —
तथा चेति ।
अप्रतिघमप्रतिबद्धं निरङ्कुशमित्येतत्प्रत्येकं संबध्यते यस्यैतच्चतुष्टयं सहसिद्धं स निरवर्ततेति संबन्धः ।
सहसिद्धत्वस्मृतेः ‘सोऽबिभेत्’(बृ. उ. १ । ४ । २) इतिश्रुतिविरुद्धत्वादप्रामाण्यमिति विरोधाधिकरणन्यायेन शङ्कते —
सहसिद्धत्व इति ।
सत्येव सहजे ज्ञाने स्वहेतोर्भयमपि स्यादिति चेन्नेत्याह —
न हीति ।
अन्येनाऽऽचार्येणानुपदिष्टमेव प्रजापतेर्ज्ञानमुदेतीत्येवमर्थपरत्वात्सहसिद्धवाक्यस्य । तज्ज्ञानात्प्राक्तस्य भयमविरुद्धमूर्ध्वं चाज्ञानलेशादतो न विरोधः श्रुतिस्मृत्योरिति समाधत्ते —
नेत्यादिना ।
ज्ञानोत्पत्तेराचार्याद्यनपेक्षत्वे श्रद्धादिविधानानर्थक्यादनेकश्रुतिस्मृतिविरोधः स्यादिति शङ्कते —
श्रद्धेति ।
आदिपदेन शमादिग्रहः ।
अस्मदादिषु तेषां हेतुत्वमिति चेन्नेत्याह —
प्रजापतेरिवेति ।
चोदितं विरोधं निराकरोति —
नेत्यादिना ।
निमित्तानां विकल्पः समुच्चयो गुणवत्त्वमगुणत्त्वमित्यनेन प्रकारेण कार्योत्पत्तौ विशेषसंभवान्न श्रद्धादिविध्यानर्थक्यमित्यर्थः ।
संग्रहवाक्यं विवृणोति —
लोके हीति ।
तद्धि सर्वं विकल्पादि यथा ज्ञातुं शक्यं तथैकस्मिन्नेव नैमित्तिके रूपज्ञानाख्यकार्ये दर्शयामीत्याह —
तद्यथेति ।
तत्र विकल्पमुदाहरति —
तमसीत्यादिना ।
समुच्चयं दर्शयति —
अस्माकं त्विति ।
विकल्पितानां समुच्चितानां च निमित्तानां गुणवदगुणवत्त्वप्रयुक्तं भेदं कथयति —
तथेति ।
आलोकविशेषस्य गुणवत्त्वं बहुलत्वमगुणवत्त्वं मन्दप्रभत्वं चक्षुरादेर्गुणवत्त्वं निर्मलत्वादि तिमिरोपहतत्वादि चागुणवत्त्वमिति भेदः ।
दृष्टान्तं प्रतिपाद्य दार्ष्टान्तिकमाह —
एवमिति ।
तथाऽन्यस्यापि प्रजापतितुल्यस्य वामदेवादेर्जन्मान्तरीयसाधनवशादीश्वरानुग्रहादस्मिञ्जन्मनि स्मृतवाक्यादैक्यज्ञानमुदेतीति शेषः । भृगुस्तत्तुल्यो वाऽधिकारी क्वचिदित्युच्यते । तपोऽन्वयव्यतिरेकाख्यमालोचनम् ।
श्वेतकेतुप्रभृतिषु ज्ञाननिमित्तानां समुच्चयं दर्शयति —
क्वचिदित्यादिना ।
एकान्तं नियतमावश्यकं ज्ञानोदयलाभे निमित्तत्वमिति यावत् ।
अथ प्रणिपातादिव्यतिरेकेण न प्रजापतेरपि ज्ञानं संभवति सामग्र्यभावादत आह —
अधर्मादीति ।
प्रणिपातादेर्ज्ञानोदयप्रतिबन्धकनिवर्तकत्वात्प्रजापतेश्च तन्निवृत्तेर्जन्मान्तरीयसाधनायत्तत्वादाधुनिकप्रणिपातादिना विना स्मृतवाक्यादेवैक्यधीः संभवतीत्यर्थः ।
तर्हि श्रवणादिव्यतिरेकेणापि प्रजापतेर्ज्ञानं स्यादित्याशङ्क्याऽऽह —
वेदान्तेति ।
न तैर्विना ज्ञानं कस्यचिदपि स्यात्प्रजापतेस्तु जन्मान्तरीयश्रवणवशादिदानीमनुस्मृतवाक्यात्तदुत्पत्तिरिति शेषः ।
तर्हि श्रद्धादिकमपि प्रतिबन्धकनिवर्तकत्वेन प्रजापतेरादरणीयं तन्निवृत्तिमन्तरेण ज्ञानोत्पत्त्यनुपपत्तेरित्याशङ्क्याऽऽह —
पापादीति ।
आत्ममनसोर्मिथः संयुक्तयोः संबन्धि यत्पापं यत्कार्यं च रागादि तेन ज्ञानोत्पत्तौ प्रतिबन्धस्य पूर्वोक्तेन न्यायेन क्षये सति प्रजापतेरीश्वरानुग्रहात्स्मृतवाक्यस्य परमार्थज्ञानोत्पत्तौ केवलस्य निमित्तत्वात्तस्याऽऽधुनिकश्रद्धाद्यतिरेकेण ज्ञानोदयेऽपि न तद्विधिवैयर्थ्यम् । अस्माकं तद्वशादेव तदुत्पत्तेर्वाक्यतात्पर्यादिज्ञानं सर्वेषामेव ज्ञानसाधनमाचार्यादिषु पुनर्विकल्पसमुच्चयावित्यर्थः ।
अधिकारिभेदेन ज्ञानहेतुषु विकल्पेऽपि तेषामस्मासु समुच्चयान्न श्रुतिस्मृतिविरोधोऽस्तीत्युपसंहरति —
तस्मादिति ॥२॥