प्रजापतेर्भयाविष्टात्वेन संसारान्तर्भूतत्वमुक्तमिदानीं तत्रैव हेत्वन्तरमाह —
इतश्चेति ।
अरत्याविष्टत्वे प्रजापतेरेकाकित्वं हेतूकरोति —
यत इति ।
कार्यस्थारतिः कारणस्थारतेर्लिङ्गमित्यनुमानं सूचयति —
इदानीमपीति ।
आदिपदेन भयाविष्टत्वादिग्रहः अरतिं प्रतियोगिनिरुक्तिद्वारा निर्वक्ति —
रतिर्नामेति ।
कथं तर्हि यथोक्तारतिनिरसनमित्याशङ्क्य स द्वितीयमैच्छदित्येतद्व्याचष्टे —
स तस्या इति ।
स हेत्यस्य वाक्यस्य पातनिकाङ्करोति —
तस्येति ।
तेन भावेनेति यावत् ।
कथमभिमानमात्रेण यथोक्तपरिमाणत्वं तत्राऽऽह —
सत्येति ।
निपातोऽवधारणे । तस्यैव पुनरनुवादोऽन्वयार्थः ।
परिमाणमेव प्रश्नपूर्वकं विवृणोति —
किमित्यादिना ।
संप्रति स्त्रीपुंसयोरुत्पत्तिमाह —
स तथेति ।
ननु द्वेधाभावो विराजो वा संसक्तस्त्रीपुम्पिण्डस्य वा ? नाऽऽद्यः । सशब्देन विराड्ग्रहयोगात्तस्य कर्मत्वाद्द्वितीये त्वात्मशब्दानुपपत्तिस्तत्राऽऽह —
इममिति ।
तथा च सशब्देन कर्तृतया विराड्ग्रहणमविरुद्धमित्यर्थः ।
तदेव स्फुटयति —
नेत्यादिना ।
कस्य तर्हि द्विधाकरणमित्याशङ्क्याऽऽह —
किं तर्हीति ।
तच्च द्विधाकरणकर्मेति शेषः ।
कथं तर्हि तत्राऽऽत्मशब्दः संभवतीत्याशङ्क्याऽऽह —
स एव चेति ।
तथाभूतः संसक्तजायापुम्परिमाणोऽभूदिति यावत् ।
न केवलं मनुः शतरूपेत्यनयोरेव दम्पत्योरिदं निर्वचनं किन्तु लोकप्रसिद्धयोः सर्वयोरेव तयोरेतद्द्रष्टव्यं सर्वत्रास्य संभवादित्याह —
लौकिकयोरिति ।
उक्ते निर्वचने लोकानुभवमनुकूलयति —
तस्मादिति ।
प्रागिति सहधर्मचारिणीसंबन्धात्पूर्वमित्यर्थः ।
आकाङ्क्षाद्वारा षष्ठीमादायानुभवमवलम्ब्य व्याचष्टे —
कस्येत्यादिना ।
बृगलशब्दो विकारार्थः ।
अनुभवसिद्धेऽर्थे प्रामाणिकसम्मतिमाह —
एवमिति ।
द्वेधापातने सत्येको भागः पुरुषोऽपरस्तु स्त्रीत्यत्रैव हेत्वन्तरमाह —
यस्मादिति ।
उद्वहनात्प्रागवस्थायामाकाशः पुरुषार्धः स्त्र्यर्धशून्यो यस्मादसंपूर्णो वर्तते तस्मादुद्वहनेन प्राप्तस्त्र्यर्धेन पुनरितरो भागः पूर्यते यथा विदलार्धोऽसंपूर्णः संपुटीकरणेन पुनः संपूर्णः क्रियते तद्वदिति योजना । पूर्वमपि स्वाभाविकयोग्यतावशेन संसर्गोऽभूदनादित्वात्संसारस्येति सूचयितुं पुनरित्युक्तम् ।
पुरुषार्धस्येतरार्धस्य च मिथः संबन्धान्मनुष्यादिसृष्टिरित्याह —
तामित्यादिना ॥३॥
स्मार्तं प्रतिषेधमिति । ‘न सगोत्रां समानप्रवरां भार्यां विन्देते’त्यादिकमिति यावत् ।