बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सो हेयमीक्षाञ्चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति हन्त तिरोऽसानीति सा गौरभवदृषभ इतरस्तां समेवाभवत्ततो गावोऽजायन्त बडबेतराभवदश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्तां समेवाभवत्तत एकशफमजायताजेतराभवद्बस्त इतरोऽविरितरा मेष इतरस्तां समेवाभवत्ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४ ॥
सा शतरूपा उ ह इयम् — सेयं दुहितृगमने स्मार्तं प्रतिषेधमनुस्मरन्ती ईक्षाञ्चक्रे । ‘कथं न्विदमकृत्यम् , यन्मा माम् आत्मन एव जनयित्वा उत्पाद्य सम्भवति उपगच्छति ; यद्यप्ययं निर्घृणः, अहं हन्तेदानीं तिरोऽसानि जात्यन्तरेण तिरस्कृता भवानि’ इत्येवमीक्षित्वा असौ गौरभवत् । उत्पाद्य प्राणिकर्मभिश्चोद्यमानायाः पुनः पुनः सैव मतिः शतरूपाया मनोश्चाभवत् । ततश्च ऋषभ इतरः । तां समेवाभवदित्यादि पूर्ववत् । ततो गावोऽजायन्त । तथा बडबेतराभवत् अश्ववृष इतरः । तथा गर्दभीतरा गर्दभ इतरः । तत्र बडबाश्ववृषादीनां सङ्गमात्तत एकशफम् एकखुरम् अश्वाश्वतरगर्दभाख्यं त्रयमजायत । तथा अजा इतराभवत् , बस्तश्छाग इतरः । तथाविरितरा, मेष इतरः । तां समेवाभवत् । तां तामिति वीप्सा । तामजां तामविं चेति समभवदेवेत्यर्थः । ततोऽजाश्चावयश्चाजावयोऽजायन्त । एवमेव यदिदं किञ्च यत्किञ्चेदं मिथुनं स्त्रीपुंसलक्षणं द्वन्द्वम् , आ पिपीलिकाभ्यः पिपीलिकाभिः सह अनेनैव न्यायेन तत्सर्वमसृजत जगत्सृष्टवान् ॥

’अकृत्यं हीदं यद्दुहितृगमनं मातृतश्चाऽऽपञ्चमात्पुरुषात्पितृतश्चाऽऽसप्तमादि’ति स्मृतेरिति मत्वाऽऽह —

कथमिति ।

तयोर्जात्यन्तरगमनं कथमित्याशङ्क्याऽऽह —

यद्यपीति ।

शतरूपायां गोभावमापन्नायामृषभादिभावो मनोर्भवतु तावता यथोक्तदोषपरिहारस्तयोर्वडवादिभावे तु न कारणमस्तीत्याशङ्क्याऽऽह —

उत्पाद्येति ।

ततस्तया गोभावादनन्तरमिति यावत् । गवां जन्मार्थं मिथः संभवनं ततःशब्दार्थः । तत्र तेषामुत्पत्तौ सत्यामिति यावत् ।

वाक्यद्वये वीप्सा विवक्षितेत्याह —

तामिति ।

तामेवाभिनयति —

तामजामिति ।

तां वडवां तां गर्दभीं चेत्यपि द्रष्टव्यम् । ततो मिथः संभवनाद्यथोक्तादिति यावत् ।

विशेषाणामानन्त्यात्प्रत्येकमुपदेशासंभवं मन्वानः संक्षिप्योपसम्हरन्ति —

एवमेवेति ।

तद्विभजते —

इदं मिथुनमिति ।

पशुकर्मप्रयोगो न्यायः ॥४॥