बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ततः सृष्टिरभवत्सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ५ ॥
सः प्रजापतिः सर्वमिदं जगत्सृष्ट्वा अवेत् । कथम् ? अहं वाव अहमेव, सृष्टिः — सृज्यत इति सृष्टं जगदुच्यते सृष्टिरिति — यन्मया सृष्टं जगत् मदभेदत्वादहमेवास्मि, न मत्तो व्यतिरिच्यते ; कुत एतत् ? अहं हि यस्मात् , इदं सर्वं जगत् असृक्षि सृष्टवानस्मि, तस्मादित्यर्थः । यस्मात्सृष्टिशब्देनात्मानमेवाभ्यधात्प्रजापतिः ततः तस्मात् सृष्टिरभवत् सृष्टिनामाभवत् सृष्ट्यां जगति ह अस्य प्रजापतेः एतस्याम् एतस्मिञ्जगति, स प्रजापतिवत्स्रष्टा भवति, स्वात्मनोऽनन्यभूतस्य जगतः ; कः ? य एवं प्रजापतिवद्यथोक्तं स्वात्मनोऽनन्यभूतं जगत् ‘साध्यात्माधिभूताधिदैवं जगदहमस्मि’ इति वेद ॥

यद्यपि मन्वादिसृष्टिरेवोक्ता तथापि सर्वा सृष्टिरुक्तैवेति सिद्धवत्कृत्याऽऽह —

स प्रजापतिरिति ।

अवगतिं प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

कथं सृष्टिरस्मीत्यवधार्यते कर्तृक्रिययोरेकत्वायोगादित्याशङ्क्याऽऽह —

सृज्यत इतीति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

यन्मयेति ।

जगच्छब्दादुपरि तच्छब्दमध्याहृत्याहमेव तदस्मीति संबन्धः ।

तत्र हेतुमाह —

मदभेदत्वादिति ।

एवकारार्थमाह —

नेति ।

मदभेदत्वादित्युक्तमाक्षिप्य समाधत्ते —

कुत इत्यादिना ।

न हि सृष्टं स्रष्टुरर्थान्तरं तस्यैव तेन तेन मायाविवदवस्थानादित्यर्थः ।

ततः सृष्टिरित्यादि व्याचष्टे —

यस्मादिति ।

किमर्थं स्रष्टुरेषा विभूतिरुपदिष्टेत्याशङ्क्याऽऽह —

सृष्ट्यामिति ।

जगति भवतीति संबन्धः ।

वाक्यार्थमाह —

प्रजापतिवदिति ॥५॥