बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथेत्यभ्यमन्थत्स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः । तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः । अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिः । यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥
एवं स प्रजापतिर्जगदिदं मिथुनात्मकं सृष्ट्वा ब्राह्मणादिवर्णनियन्त्रीर्देवताः सिसृक्षुरादौ — अथ - इति - शब्दद्वयमभिनयप्रदर्शनार्थम् — अनेन प्रकारेण मुखे हस्तौ प्रक्षिप्य अभ्यमन्थत् आभिमुख्येन मन्थनमकरोत् । सः मुखं हस्ताभ्यां मथित्वा, मुखाच्च योनेः हस्ताभ्यां च योनिभ्याम् , अग्निं ब्राह्मणजातेरनुग्रहकर्तारम् , असृजत सृष्टवान् । यस्माद्दाहकस्याग्नेर्योनिरेतदुभयम् — हस्तौ मुखं च, तस्मात् उभयमप्येतत् अलोमकं लोमविवर्जितम् ; किं सर्वमेव ? न, अन्तरतः अभ्यन्तरतः । अस्ति हि योन्या सामान्यमुभयस्यास्य । किम् ? अलोमका हि योनिरन्तरतः स्त्रीणाम् । तथा ब्राह्मणोऽपि मुखादेव जज्ञे प्रजापतेः । तस्मादेकयोनित्वाज्ज्येष्ठेनेवानुजोऽनुगृह्यते, अग्निना ब्राह्मणः । तस्माद्ब्राह्मणोऽग्निदेवत्यो मुखवीर्यश्चेति श्रुतिस्मृतिसिद्धम् । तथा बलाश्रयाभ्यां बाहुभ्यां बलभिदादिकं क्षत्रियजातिनियन्तारं क्षत्त्रियं च । तस्मादैन्द्रं क्षत्त्रं बाहुवीर्यं चेति श्रुतौ स्मृतौ चावगतम् । तथोरुत ईहा चेष्टा तदाश्रयाद्वस्वादिलक्षणं विशो नियन्तारं विशं च । तस्मात्कृष्यादिपरो वस्वादिदेवत्यश्च वैश्यः । तथा पूषणं पृथ्वीदैवतं शूद्रं च पद्भ्यां परिचरणक्षममसृजतेति — श्रुतिस्मृतिप्रसिद्धेः । तत्र क्षत्रादिदेवतासर्गमिहानुक्तं वक्ष्यमाणमप्युक्तवदुपसंहरति सृष्टिसाकल्यानुकीर्त्यै । यथेयं श्रुतिर्व्यवस्थिता तथा प्रजापतिरेव सर्वे देवा इति निश्चितोऽर्थः ; स्रष्टुरनन्यत्वात्सृष्टानाम् , प्रजापतिनैव तु सृष्टत्वाद्देवानाम् । अथैवं प्रकरणार्थे व्यवस्थिते तत्स्तुत्यभिप्रायेणाविद्वन्मतान्तरनिन्दोपन्यासः । अन्यनिन्दा अन्यस्तुतये । तत् तत्र कर्मप्रकरणे, केवलयाज्ञिका यागकाले, यदिदं वच आहुः — ‘अमुमग्निं यजामुमिन्द्रं यज’ इत्यादि — नामशस्त्रस्तोत्रकर्मादिभिन्नत्वाद्भिन्नमेवाग्न्यादिदेवमेकैकं मन्यमाना आहुरित्यभिप्रायः — तन्न तथा विद्यात् ; यस्मादेतस्यैव प्रजापतेः सा विसृष्टिर्देवभेदः सर्वः ; एष उ ह्येव प्रजापतिरेव प्राणः सर्वे देवाः ॥

ननु सर्वा सृष्टिरुक्तोक्तञ्च प्रजापतेर्विभूतिसंकीर्तनफलं किमवशिष्यते यदर्थमुत्तरं वाक्यमित्याशङ्क्याऽऽह —

एवमिति ।

आदावभ्यमन्थदिति संबन्धः ।

अभिनयप्रदर्शनमेव विशदयति —

अनेनेति ।

मुखादेरग्निं प्रति योनित्वे गमकमाह —

यस्मादिति ।

प्रत्यक्षविरोधं शङ्कित्वा दूषयति —

किमित्यादिना ।

हस्तयोर्मुखे च योनिशब्दप्रयोगे निमित्तमाह —

अस्ति हीति ।

प्रजापतेर्मुखादित्थमग्निः सृष्टोऽपि कथं ब्राह्मणमनुगृह्णाति तत्राऽऽह —

तथेति ।

उक्तेऽर्थे श्रुतिस्मृतिसंवादं दर्शयति —

तस्मादिति ।

’अग्नेयो वै ब्राह्मणः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिर्द्रष्टव्या ।

’अग्निमसृजत’ इत्येतदुपलक्षणार्थमित्यभिप्रेत्य सृष्ट्यन्तरमाह —

तथेति ।

बलभिदिन्द्रः । आदिशब्देन वरुणादिर्गृह्यते । क्षत्त्रियं चासृजतेत्यनुवर्तते ।

उक्तमर्थं प्रमाणेन द्रढयति —

तस्मादिति ।

’ऐन्द्रो राजन्यः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिरवधेया । विशं चासृजतेति पूर्ववत् । ईहाश्रयादूरुतो जातत्वं वस्वादेर्ज्येष्ठत्वं च तच्छब्दार्थः । ‘पद्भ्यां शूद्रो अजायत’(ऋ.१०.९०.१३) इत्याद्या श्रुतिस्तथाविधा च स्मृतिरनुसर्तव्या ।

अग्निसर्गस्य वक्ष्यमाणेन्द्रादिसर्गोपलक्षणत्वे सति सृष्टिसाकल्यादेष उ एव सर्वे देवा इत्युपसंहारसिद्धिरिति फलितमाह —

तत्रेति ।

उक्तेन वक्ष्यमाणोपलक्षणं सर्वशब्दः सूचयतीति भावः ।

किञ्च सृष्टिरत्र न विवक्षिता किन्तु येन प्रकारेण सृष्टिश्रुतिः स्थिता तेन प्रकारेण देवतादि सर्वं प्रजापतिरेवेति विवक्षितमित्याह —

यथेति ।

तत्र हेतुमाह —

स्रष्टुरिति ।

तथाऽपि कथं देवतादि सर्वं प्रजापतिमात्रमित्याशङ्क्याऽऽह —

प्रजापतिनेति ।

तद्यदिदमित्यादिवाक्यस्य तात्पर्यमाह —

अथेति ।

स्रष्टा प्रजापतिरेव सृष्टं सर्वं कार्यमिति प्रकरणार्थे पूर्वोक्तप्रकारेण व्यवस्थिते सत्यनन्तरं तस्यैव स्तुतिविवक्षया तद्यदिदमित्याद्यविद्वन्मतान्तरस्य निन्दार्थं वचनमित्यर्थः ।

मतान्तरे निन्दितेऽति कथं प्रकरणार्थः स्तुतो भवतीत्याशङ्क्याऽऽह —

अन्येति ।

एकैकं देवमित्यस्य तात्पर्यमाह —

नामेति ।

काठकं कालापकमितिवन्नामभेदात्क्रतुषु तत्तद्देवतास्तुतिभेदाद्घटशकटादिवदर्थक्रियाभेदाच्च प्रत्येकं देवानां भिन्नत्वात्कर्मिणामेतद्वचनमित्यर्थः । आदिशब्देन रूपादिभेदात्तद्भिन्नत्वं संगृह्णाति ।

नन्वत्र कर्मिणां निन्दा न प्रतिभाति तन्मतोपन्यासस्यैव प्रतीतेरित्याशङ्क्याऽऽह —

तन्नेति ।

एकस्यैव प्राणस्यानेकविधो देवताप्रभेदः शाकल्यब्राह्मणे वक्ष्यत इति विवक्षित्वा विशिनष्टि —

प्राण इति ।