बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथेत्यभ्यमन्थत्स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः । तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः । अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिः । यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥
अत्र विप्रतिपद्यन्ते — पर एव हिरण्यगर्भ इत्येके ; संसारीत्यपरे । पर एव तु मन्त्रवर्णात् — ‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) इति श्रुतेः ; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ । ३) इति च श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’ (मनु. १२ । १२३) इति, ‘योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ’ (मनु १ । ७) इति च । संसार्येव वा स्यात् — ‘सर्वान्पाप्मन औषत्’ (बृ. उ. १ । ४ । १) इति श्रुतेः ; न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति ; भयारतिसंयोगश्रवणाच्च ; ‘अथ यन्मर्त्यः सन्नमृतानसृजत’ (बृ. उ. १ । ४ । ६) इति च, ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. ४ । १२) इति च मन्त्रवर्णात् ; स्मृतेश्च कर्मविपाकप्रक्रियायाम् — ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति । अथैवं विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघात इति चेत् —

अग्न्यादयो देवाः सर्वं प्रजापतिरेवेत्युक्तं संप्रति तत्स्वरूपनिर्दिधारयिषया तत्र विप्रतिपत्तिं दर्शयति —

अत्रेति ।

हिरण्यगर्भस्य परत्वमाद्ये द्वितीये कल्पे संसारित्वं विधेयमिति विभागः ।

तत्र पूर्वपक्षं गृह्णाति —

पर एव त्विति ।

नन्वेकस्यानेकात्मकत्वं मन्त्रवर्णादवगम्यते न तु परमात्मत्वं प्रजापतेरित्याशङ्क्य ब्राह्मणवाक्यमुदाहरति —

एष इति ।

ब्रह्मप्रजापती सूत्रविराजौ । एषशब्दः परात्मविषयः । स्मृतेश्च पर एव हिरण्यगर्भ इति संबन्धः ।

तत्रैव वाक्यान्तरं पठति —

योऽसाविति ।

कर्मेन्द्रियाविषयत्वमतीन्द्रियत्वम् । अग्राह्यत्वं ज्ञानेन्द्रियाविषयत्वम् ।

तत्र हेतुमाह —

सुक्ष्मोऽव्यक्त इति ।

न च तस्यासत्त्वं प्रमात्रादिभावाभावसाक्षित्वेन सदा सत्त्वादित्याह —

सनातन इति ।

इतश्च तस्य नासत्त्वं सर्वेषामात्मत्वादित्याह —

सर्वेति ।

अन्तःकरणाविषयत्वमाह —

अचिन्त्य इति ।

योऽसौ परमात्मा यथोक्तविशेषणः स एव स्वयं विराडात्मना भूतवानित्याह —

स एवेति ।

मन्त्रब्राह्मणस्मृतिषु परस्य सर्वदेवतात्मत्वदृष्टेरत्र च सूत्रस्य तत्प्रतीतेस्तस्य परत्वमित्युक्तमिदानीं पूर्वपक्षान्तरमाह —

संसार्येवेति ।

सर्वपाप्मदाहश्रवणमात्रेण कथं प्रजापतेः संसारित्वं तत्राऽऽह —

न हीति ।

’अन्तस्तद्धर्मोपदेशादि’त्यत्र परस्यापि सर्वपाप्मोदयाङ्गीकारान्नेदं संसारित्वे लिङ्गमित्याशङ्क्याऽऽह —

भयेति ।

असृजतेति च श्रवणादिति संबन्धः ।

न केवलं मर्त्यत्वश्रुतेरेव संसारित्वं किन्तु जन्मश्रुतेश्चेत्याह —

हिरण्यगर्भमिति ।

यथोक्तहेतूनां संसार्येव स्यादिति प्रतिज्ञयाऽन्वयः ।

कर्मफलदर्शनाधिकारे ब्रह्मेत्याद्यायाः स्मृतेश्च तत्फलभूतस्य प्रजापतेः संसारित्वमेवेत्याह —

स्मृतेश्चेति ।

विराड्ब्रह्मेत्युच्यते । विश्वसृजो मन्वादयः । धर्मस्तदभिमानिनी देवता यमः । महान्प्रकृतेराद्यो विकारः सूत्रम् । अव्यक्तं प्रकृतिरिति भेदः ।

अस्तु तर्हि द्विविधवाक्यवशात्प्रजापतेः संसारित्वमसंसारित्वं चेत्याशङ्क्याऽऽह —

अथेति ।

तद्द्विविधवाक्यश्रवणानन्तर्यमथशब्दार्थः । एवंशब्दः संसारित्वासंसारित्वप्रकारपरामर्शार्थः ।