बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथेत्यभ्यमन्थत्स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः । तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः । अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिः । यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥
न, कल्पनान्तरोपपत्तेरविरोधात् । उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते । ‘आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (क. उ. १ । २ । २१) इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम् , न परमार्थतः । स्वतोऽसंसार्येव । एवमेकत्वं नानात्वं च हिरण्यगर्भस्य । तथा सर्वजीवानाम् , ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति श्रुतेः । हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः । संसारित्वं तु क्वचिदेव दर्शयन्ति । जीवानां तूपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते । व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः ॥

विरोधकृतमप्रामाण्यं निराकरोति —

नेत्यादिना ।

स्वतोऽसंसारित्वं कल्पनया च संसारित्वमिति कल्पनान्तरसंभवाद्द्विविधश्रुतीनामविरोधात्प्रामाण्यसिद्धिरित्यर्थः ।

कल्पनया संसारित्वमित्येतद्विशदयति —

उपाधीति ।

औपाधिकी परस्य विशेषकल्पनेत्यत्र प्रमाणमाह —

आसीत इति ।

स्वारस्येन कूटस्थोऽप्यात्मा मनसः शीघ्रं दूरगमनदर्शनात्तदुपाधिको दूरं व्रजति । यथा स्वप्ने शयानोऽपि मनसो गतिभ्रान्त्या सर्वत्र यातीव भाति तथा जागरेऽपीत्यर्थः ।

कल्पितेन हर्षादिविकारेण स्वाभाविकेन तदभावेन च युक्तमात्मानं न कश्चिदपि निश्चेतुं शक्नोतीत्याह —

कस्तमिति ।

आदिपदेन ‘ध्यायती’(बृ. उ. ४ । ३ । ७) वेत्यादिश्रुतयो गृह्यन्ते ।

उदाहृतश्रुतीनां तात्पर्यमाह —

उपाधीति ।

किं तर्हि पारमार्थिकं तदाह —

स्वत इति ।

पूर्वेण संबन्धः ।

हिरण्यगर्भस्य वास्तवमवास्तवं च रूपं निरूपितमुपसंहरति —

एवमिति ।

तस्याप्यस्मदादिवन्न स्वतो ब्रह्मत्वं किन्तु संसारित्वमेव स्वाभाविकमित्याशङ्क्य दृष्टान्तस्य साध्यविकलतामाह —

तथेति ।

सर्वजीवानामेकत्वं नानात्वञ्चेति पूर्वेण संबन्धः ।

तेषां स्वतो ब्रह्मत्वे प्रमाणमाह —

तत्त्वमिति ।

कस्तर्हि हिरण्यगर्भे विशेषो येनासावस्मदादिभिरुपास्यते तत्राऽऽह —

हिरण्यगर्भस्त्विति ।

ननु श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते सत्यं तत्तु कल्पितमित्यभिप्रेत्याऽऽह —

संसारित्वं त्विति ।

अस्मदादिषु तुल्यमेतदित्याशङ्क्याऽऽह —

जीवानां त्विति ।

कथं तर्हि ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिवादाः संगच्छन्ते तत्राऽऽह —

व्यावृत्तेति ।