स्वमते तत्त्वनिश्चयमुक्त्वा, परमते तदभावमाह —
तार्किकैस्त्विति ।
नन्वेकजीववादेऽपि सर्वव्यवस्थानुपपत्तेस्तत्त्वनिश्चयदौर्लभ्यं तुल्यमिति चेन्नेत्याह —
ये त्विति ।
स्वप्नवत्प्रबोधात्प्रागशेषव्यवस्थासंभवादूर्ध्वं च तदभावस्येष्टत्वादेकमेव ब्रह्मानाद्यविद्यावशादशेषव्यवहारास्पदमिति पक्षे न काचन दोषकलेति भावः ।