सर्वदेवतात्मकस्य प्रजापतेः स्वतोऽसंसारित्वं कल्पनया वैपरीत्यमिति स्थिते सत्यथेत्याद्युत्तरग्रन्थस्य तात्पर्यमाह —
तत्रेति ।
विवक्षित इत्युत्तरग्रन्थप्रवृत्तिरिति शेषः ।
तस्य विषयं परिशिनष्टि —
तत्राग्निरिति ।
अत्राद्ययोर्निर्धारणार्था सप्तमी ।
संप्रति प्रतीकमादायाक्षराणि व्याकरोति —
अथेति ।
अत्तुः सर्गान्तन्तर्यमथशब्दार्थः रेतसः सकाशादपां सर्गेऽपि सोमशब्दे किमायातमित्याशङ्क्याऽऽह —
द्रवात्मकश्चेति ।
श्रद्धाख्याहुतेः सोमोत्पत्तिश्रवणात्तत्र शैत्योपलब्धेश्चेति भावः ।
सोमस्य द्रवात्मकत्वे फलितमाह —
तस्मादिति ।
अग्नीषोमयोरन्नान्नादयोः सृष्टावपि जगति स्रष्टव्यान्तरमवशिष्टमस्तीत्याशङ्क्याऽऽह —
एतावदिति ।
आप्यायकः सोमो द्रवात्मकत्वादन्नं चाऽऽप्यायकं प्रसिद्धं तस्मादुपपन्नं यथोक्तं वाक्यं सप्तम्यर्थः ।