बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथेत्यभ्यमन्थत्स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः । तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः । अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिः । यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥
तत्र प्रजापतेरेकस्य देवस्यात्राद्यलक्षणो भेदो विवक्षित इति — तत्राग्निरुक्तोऽत्ता, आद्यः सोम इदानीमुच्यते । अथ यत्किञ्चेदं लोक आर्द्रं द्रवात्मकम् , तद्रेतस आत्मनो बीजात् असृजत ; ‘रेतस आपः’ (ऐ. उ. १ । १ । ४) इति श्रुतेः । द्रवात्मकश्च सोमः । तस्माद्यदार्द्रं प्रजापतिना रेतसः सृष्टम् , तदु सोम एव । एतावद्वै एतावदेव, नातोऽधिकम् , इदं सर्वम् । किं तत् ? अन्नं चैव सोमो द्रवात्मकत्वादाप्यायकम् , अन्नादश्चाग्निः औष्ण्याद्रूक्षत्वाच्च ।

सर्वदेवतात्मकस्य प्रजापतेः स्वतोऽसंसारित्वं कल्पनया वैपरीत्यमिति स्थिते सत्यथेत्याद्युत्तरग्रन्थस्य तात्पर्यमाह —

तत्रेति ।

विवक्षित इत्युत्तरग्रन्थप्रवृत्तिरिति शेषः ।

तस्य विषयं परिशिनष्टि —

तत्राग्निरिति ।

अत्राद्ययोर्निर्धारणार्था सप्तमी ।

संप्रति प्रतीकमादायाक्षराणि व्याकरोति —

अथेति ।

अत्तुः सर्गान्तन्तर्यमथशब्दार्थः रेतसः सकाशादपां सर्गेऽपि सोमशब्दे किमायातमित्याशङ्क्याऽऽह —

द्रवात्मकश्चेति ।

श्रद्धाख्याहुतेः सोमोत्पत्तिश्रवणात्तत्र शैत्योपलब्धेश्चेति भावः ।

सोमस्य द्रवात्मकत्वे फलितमाह —

तस्मादिति ।

अग्नीषोमयोरन्नान्नादयोः सृष्टावपि जगति स्रष्टव्यान्तरमवशिष्टमस्तीत्याशङ्क्याऽऽह —

एतावदिति ।

आप्यायकः सोमो द्रवात्मकत्वादन्नं चाऽऽप्यायकं प्रसिद्धं तस्मादुपपन्नं यथोक्तं वाक्यं सप्तम्यर्थः ।