बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथेत्यभ्यमन्थत्स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः । तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः । अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिः । यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥
तत्रैवमवध्रियते — सोम एवान्नम् , यदद्यते तदेव सोम इत्यर्थः ; य एवात्ता स एवाग्निः ; अर्थबलाद्ध्यवधारणम् । अग्निरपि क्वचिद्धूयमानः सोमपक्षस्यैव ; सोमोऽपीज्यमानोऽग्निरेव, अत्तृत्वात् । एवमग्नीषोमात्मकं जगदात्मत्वेन पश्यन्न केनचिद्दोषेण लिप्यते ; प्रजापतिश्च भवति । सैषा ब्रह्मणः प्रजापतेरतिसृष्टिरात्मनोऽप्यतिशया । का सेत्याह — यच्छ्रेयसः प्रशस्यतरानात्मनः सकाशात् यस्मादसृजत देवान् , तस्माद्देवसृष्टिरतिसृष्टिः । कथं पुनरात्मनोऽतिशया सृष्टिरित्यत आह — अथ यत् यस्मात् मर्त्यः सन् मरणधर्मा सन् , अमृतान् अमरणधर्मिणो देवान् , कर्मज्ञानवह्निना सर्वानात्मनः पाप्मन ओषित्वा, असृजत ; तस्मादियमतिसृष्टिः उत्कृष्टज्ञानस्य फलमित्यर्थः । तस्मादेतामतिसृष्टिं प्रजापतेरात्मभूतां यो वेद, स एतस्यामतिसृष्ट्यां प्रजापतिरिव भवति प्रजापतिवदेव स्रष्टा भवति ॥

यथाश्रुतमवधारणमवधीर्य कुतो विधान्तरेण तद्व्याख्यानमित्याशङ्क्याऽऽह —

अर्थ बलाद्धीति ।

अन्नादस्य संहर्तृत्वादग्नित्वमन्नस्य च संहरणीयतया सोमत्वमवधारयितुं युक्तमित्यर्थः ।

नन्वन्नस्य सोमत्वेन न नियमोऽग्नेरपि जलादिना सम्हारान्न चात्तुरग्नित्वेन नियमः सोमस्यापि कदाचिदिज्यमानत्वेनात्तृत्वात्तत्कुतोऽर्थबलमित्याशङ्क्याऽऽह —

अग्निरपीति ।

सोऽपि संहार्यश्चेत्सोम एव स च संहर्ता चेदग्निरेवेत्यवधारणसिद्धिरित्यर्थः ।

प्रजापतेः सर्वात्मत्वमुपक्रम्य जगतो द्वेधाविभक्तत्वाभिधानं कुत्रोपयुक्तमित्याशङ्क्य तस्य सूत्रे पर्यवसानात्तस्मिन्नात्मबुद्ध्योपासकस्य सर्वदोषराहित्यं फलमत्र विवक्षितमित्याह —

एवमिति ।

अनुग्राहकदेवसृष्टिमुक्त्वा तदुपासकस्य फलोक्त्यर्थमादौ देवसृष्टिं स्तौति —

सैषेति ।

’अग्निर्मूर्धा’ इत्यादिश्रुतेरग्न्यादयोऽस्यावयवास्तत्कथं तत्सृष्टिस्ततोऽतिशयवतीत्याशङ्कते —

कथमिति ।

प्रजापतेर्यजमानावस्थापेक्षया देवसृष्टेरुत्कृष्टत्ववचनमविरुद्धमिति परिहरति —

अत आहेति ।

देवसृष्टेरतिसृष्टित्वाभावशङ्कानुवादार्थोऽथशब्दः । ज्ञानस्येत्युपलक्षणं कर्मणोऽपीति द्रष्टव्यम् ।

अतिसृष्ट्यामित्यादि व्याचष्टे —

तस्मादिति ।

देवादिस्रष्टा तदात्मा प्रजापतिरहमेवेत्युपासितुस्तद्भावापत्त्या तत्स्रष्टृत्वं फलतीत्यर्थः ॥६॥