पूर्वोत्तरग्रन्थयोः संबन्धं वक्तुं प्रतीकमादाय वृत्तं कीर्तयति —
तद्धेत्यादिना ।
तस्याऽऽदेयत्वार्थं वैदिकमित्युक्तम् ।
साधनमित्युक्ते मुक्तिसाधनं पुरःस्फुरति तन्निरस्यति —
ज्ञानेति ।
एकरूपस्य मोक्षस्यानेकरूपं न साधनं भवतीति भावः ।
मुक्तिसाधनं मानवस्तुतन्त्रं तत्त्वज्ञानमिदं तु कारकसाध्यमतोऽपि न तद्धेतुरित्याह —
कर्त्रादीति ।
किञ्चेदं प्रजापतित्वफलावसानम् । ‘मृत्युरस्याऽऽत्मा भवति’(बृ.उ.१।१।७) इति श्रुतेः ।
न च तदेव कैवल्यं भयारत्यादिश्रवणादतोऽपि नेदं मुक्त्यर्थमित्याह —
प्रजापतित्वेति ।
किञ्च नित्यसिद्धा मुक्तिरिदं तु साध्यफलमतोऽपि न मुक्तिहेतुरित्याह —
साध्यमिति ।
किञ्च मुक्तिर्व्याकृतादर्थान्तर’मन्यदेव तद्विदितादि’त्यादिश्रुतेः ।
इदं तु नामरूपं व्याकृतमतोऽपि न तद्धेतुरित्याह —
एतावदेवेति ।
संप्रत्यव्याकृतकण्डिकामवतारयन्प्रवेशवाक्यात्प्राक्तनस्य तद्धेदमित्यादेर्वाक्यस्य तात्पर्यमाह —
अथेति ।
ज्ञानकर्मफलोक्त्यान्तर्यमथशब्दार्थः । बीजावस्था साभासप्रत्यगविद्या तस्या निर्देष्टुमिष्टत्वमेव न साक्षान्निर्देश्यत्वमनिर्वाच्यत्वादिति वक्तुं निर्दिदिक्षतीत्युक्तम् । वृक्षस्य बीजावस्थां लोको निर्दिशतीति संबन्धः ।
यज्ज्ञाने पुमर्थाप्तिस्तदेव वाच्यं किमिति प्रत्यगविद्योच्यते तत्राऽऽह —
कर्मेति ।
उद्धर्तव्य इति तन्मूलनिरूपणमर्थवदिति शेषः ।
अथ पुरुषार्थमर्थयमानस्य तदुद्धारोऽपि क्वोपयुज्यते तत्राऽऽह —
तदुद्धरणे हीति ।
ननु संसारस्य मूलमेव नास्ति स्वभाववादात्प्रधानाद्येव वा तन्मूलं नाज्ञातं ब्रह्मेत्याशङ्क्य श्रुतिस्मृतिभ्यां परिहरति —
तथा चेति ।
ऊर्ध्वमुत्कृष्टं कारणं कार्यापेक्षया परमव्याकृतं मूलमस्येत्यूर्ध्वमूलो हिरण्यगर्भादयो मूलापेक्षयाऽवाच्यः शाखा इत्यवाक्शाखः । एवम् ‘ऊर्ध्वमूलमधःशाखम्’(भ. गी. १५ । १) इत्यादिगीतापि नेतव्या । अस्ति हि संसारस्य मूलम् । ‘नेदममूलं भविष्यति’ (छा. उ. ६ । ८ । ३) इति श्रुतेस्तच्चाज्ञातं ब्रह्मैवेति श्रुतिस्मृतिप्रसिद्धमिति भावः ॥६॥