एकत्वावगतिफलं कथयति —
अथेति ।
सामानाधिकरण्यवशादेकत्वे निश्चिते सत्यनन्तरम् – ‘नासतो विद्यतो भावो नाभावो विद्यते सतः’(भ. गी. २। १६) इति स्मृतिरनुसृता भवतीति भावः ।
अज्ञातं ब्रह्म जगतो मूलमित्युक्त्वा तद्विवर्तो जगदिति निरूपयति —
तदेवम्भूतमिति ।
तृतीयामित्थम्भावार्थत्वेन व्याचष्टे —
नाम्नेति ।
क्रियापदप्रयोगाभिप्रायं तदनुवादपूर्वकमाह —
व्याक्रियतेति ।
तत्र पदच्छेदपूर्वकं तद्वाच्यमर्थमाह —
व्याक्रियतेत्यादिना ।
स्वयमेवेति कुतो विशेष्यते कारणमन्तरेण कार्योत्पत्तिरयुक्तेत्याशङ्क्याऽऽह —
सामर्थ्यादिति ।
निर्हेतुकार्यसिद्ध्यनुपपत्त्याऽऽक्षिप्तो नियन्ता जनयिता कर्ता चोत्पत्तौ साधनक्रियाकरणव्यापारस्तन्निमित्तं तदपेक्ष्य व्यक्तिभावमापद्यतेति योजना ।
नामसामान्यं देवदत्तादिना विशेषनाम्ना संयोज्य सामान्यविशेषवानर्थो नामव्याकरणवाक्ये विवक्षित इत्याह —
असावित्यादिना ।
असौशब्दः श्रौतोऽव्ययत्वेन नेयः ।
रूपसामान्यं शुक्लकृष्णादिना [विशेषेण] संयोज्योच्यते रूपव्याकरणवाक्येनेत्याह —
तथेत्यादिना ।
अव्याकृतमेव व्याकृतात्मना व्यक्तमित्येतत्सुप्तप्रबुद्धदृष्टान्तेन स्पष्टयति —
तदिदमिति ।
तद्धेत्यत्र मूलकारणमुक्त्वा तन्नामरूपाभ्यामित्यादिना तत्कार्यमुक्तमिदानीं प्रवेशवाक्यस्थसशब्दापेक्षितमर्थमाह —
यदर्थ इति ।
काण्डद्वयात्मनो वेदस्याऽऽरम्भो यस्य परस्य प्रतिपत्त्यर्थो विज्ञायते ; कर्मकाण्डं हि स्वार्थानुष्ठानाहितचित्तशुद्धिद्वारा तत्त्वज्ञानोपयोगीष्यते ज्ञानकाण्डं तु साक्षादेव तत्रोपयुज्यते ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति च श्रूयते स परोऽत्र प्रविष्टो देहादाविति योजना ।
सर्वस्याऽऽम्नायस्य ब्रह्मात्मनि समन्वयमुक्त्वा तत्र विरोधसमाधानार्थमाह —
यस्मिन्निति ।
अध्यासस्य चतुर्विधख्यातीनामन्यतमत्वं वारयति —
अविद्ययेति ।
तस्या मिथ्याज्ञानत्वेन सादित्वादनाद्यध्यासहेतुत्वासिद्धिरित्याशङ्क्याऽऽह —
स्वाभाविक्येति ।
विद्याप्रागभावत्वमविद्याया व्यावर्तयति —
कर्त्रिति ।
न हि तदुपादानत्वमभावत्वे संभवति न चोपादानान्तरमस्तीति भावः । अन्वयस्तु सर्वत्र यच्छब्दस्य पूर्ववद् द्रष्टव्यः ।
आत्मनि कर्तृत्वाध्यासस्याविद्याकृतत्वोक्त्या समन्वये विरोधः समाहितः । संप्रत्यध्यासकारणस्योक्तत्वेऽपि निमित्तोपादानभेदं साङ्ख्यवादमाशङ्क्योक्तमेव कारणं तद्भेदनिराकरणार्थं कथयति —
यः कारणमिति ।
श्रुतिस्मृतिवादेषु परस्य तत्कारणत्वं प्रसिद्धमिति भावः ।
नामरूपात्मकस्य द्वैतस्याविद्याविद्यमानदेहत्वाद्विद्यापनोद्यत्वं सिध्यतीत्याह —
यदात्मके इति ।
व्याकर्तुरात्मनः स्वभावतः शुद्धत्वे दृष्टान्तमाह —
सलिलादिति ।
व्याक्रियमाणयोर्नामरूपयोः स्वतोऽशुद्धत्वे दृष्टान्तमाह —
मलमिवेति ।
यथा फेनादि जलोत्थं तन्मात्रमेव तथाऽज्ञातब्रह्मोत्थं जगद्ब्रह्ममात्रं तज्ज्ञानबाध्यञ्चेति भावः ।
नित्यशुद्धत्वादिलक्षणमपि वस्तु न स्वतोऽज्ञाननिवर्तकं केवलस्य तत्साधकत्वाद्वाक्योत्थबुद्धिवृत्त्यारूढं तु तथेति मन्वानो ब्रूते —
यश्चेति ।
’आकाशो ह वै नाम नामरूपयोर्निवहिता ते तदन्तरा तद्ब्रह्म’ इति श्रुतिमाश्रित्याऽऽह —
ताभ्यामिति ।
नामरूपात्मकद्वैतासंस्पर्शित्वादेव नित्यशुद्धत्वमशुद्धेर्द्वैतसंबन्धाधीनत्वात्तत्राविद्या प्रयोजिकेत्यभिप्रेत्य तत्संबन्धं निषेधति —
बुद्धेति ।
तस्मादेव दुःखाद्यनर्थासंस्पर्शित्वमाह —
मुक्तेति ।
विद्यादशायां शुद्ध्यादिसद्भावेऽपि बन्धावस्थायां नैवमिति चेन्नेत्याह —
स्वभाव इति ।
अव्याकृतवाक्योक्तमज्ञातं परमात्मानं परामृशति —
स इति ।
तमेव कार्यस्थं प्रत्यञ्चं निर्दिशति —
एष इति ।
आत्मा हि स्वतो नित्यशुद्धत्वादिरूपोऽपि स्वाविद्यावष्टम्भान्नामरूपे व्याकरोतीति तत्सर्जनस्याविद्यामयत्वं विवक्षित्वाऽऽह —
अव्याकृते इति ।
तयोरात्मना व्याकृतत्वे तदतिरेकेणाभावः फलतीति मत्वा विशिनष्टि —
आत्मेति ।
जनिमन्मात्रमिहशब्दार्थं कथयति —
ब्रह्मादीति ।
तत्रैव दुःखादिसंबन्धो नाऽऽत्मनीति मन्वानो विशिनष्टि —
कर्मेति ।
ब्रह्मात्मैक्ये पदद्वयसामानाधिकरण्याधिगते हेतुमाह —
प्रविष्ट इति ।