तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
नन्वव्याकृतं स्वयमेव व्याक्रियतेत्युक्तम् ; कथमिदमिदानीमुच्यते — पर एव त्वात्मा अव्याकृतं व्याकुर्वन्निह प्रविष्ट इति । नैष दोषः — परस्याप्यात्मनोऽव्याकृतजगदात्मत्वेन विवक्षितत्वात् । आक्षिप्तनियन्तृकर्तृक्रियानिमित्तं हि जगदव्याकृतं व्याक्रियतेत्यवोचाम । इदंशब्दसामानाधिकरण्याच्च अव्याकृतशब्दस्य । यथेदं जगन्नियन्त्राद्यनेककारकनिमित्तादिविशेषवद्व्याकृतम् , तथा अपरित्यक्तान्यतमविशेषवदेव तदव्याकृतम् । व्याकृताव्याकृतमात्रं तु विशेषः । दृष्टश्च लोके विवक्षातः शब्दप्रयोगो ग्राम आगतो ग्रामः शून्य इति — कदाचिद्ग्रामशब्देन निवासमात्रविवक्षायां ग्रामः शून्य इति शब्दप्रयोगो भवति ; कदाचिन्निवासिजनविवक्षायां ग्राम आगत इति ; कदाचिदुभयविवक्षायामपि ग्रामशब्दप्रयोगो भवति ग्रामं च न प्रविशेदिति यथा — तद्वदिहापि जगदिदं व्याकृतमव्याकृतं चेत्यभेदविवक्षायामात्मानात्मनोर्भवति व्यपदेशः । तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगद्व्यपदेशः । तथा ‘महानज आत्मा’ ‘अस्थूलोऽनणुः’ ‘स एष नेति नेति’ इत्यादि केवलात्मव्यपदेशः ॥