अव्याकृतवाक्ये परस्य प्रकृतत्वात्तस्य प्रवेशवाक्ये सशब्देन परामृष्टस्य सृष्टे कार्ये प्रवेश उक्तस्तच्च प्रकारान्तरेणाऽऽक्षिपति —
नन्विति ।
कथमिति सूचितामनुपपत्तिमेव स्पष्टयति —
अप्रविष्टो हीति ।
दृष्टान्तावष्टम्भेन प्रवेशवादी शङ्कते —
पाषाणेति ।
तदेव विवृणोति —
अथापीत्यादिना ।
परस्य परिपूर्णस्य क्वचित्प्रवेशाभावेऽपीति यावत् । तच्छब्दः दृष्टकार्यविषयः । धर्मान्तरं जीवाख्यम् ।
दृष्टान्तं व्याचष्टे —
यथेति ।
पाषाणाद्बाह्यः सर्पादिस्तत्र प्रविष्ट इति शङ्कापोहार्थं सहजविशेषणम् । सर्पादेरश्मादिरूपेण स्थितभूतपञ्चकपरिणामत्वात्तत्र सहजत्वं पाषाणादौ यानि भूतानि स्थितानि तेषां परिणामः सर्पादिस्तद्रूपेण तत्र भूतानामनुप्रवेशवदपरिच्छिन्नस्यापि परस्य जीवाकारेण बुद्ध्यादौ प्रवेशसिद्धिरित्यर्थः ।
आक्षेप्ता ब्रूते —
नेति ।
तदेव स्पष्टयति —
यः स्रष्टेति ।
ननु तक्ष्णा निर्मिते वेश्मनि ततोऽन्यस्यापि प्रवेशो दृश्यते तथा परेण सृष्टे जगत्यन्यस्य प्रवेशो भविष्यति नेत्याह —
यथेति ।
पाषाणसर्पन्यायेन कार्यस्थस्यैव परस्य जीवाख्ये परिणामे तत्सृष्ट्वेत्यादिश्रवणमनुपपन्नमिति व्यतिरेकं दर्शयति —
नत्विति ।
अस्तु तर्हि परस्य मार्जारादिवत्पूर्वावस्थानत्यागेनावस्थानान्तरसंयोगात्मा प्रवेशो नेत्याह —
न चेति ।
निरवयवोऽपरिच्छिन्नश्चाऽऽत्मा तस्य स्थानान्तरेण वियोगं प्राप्य स्थानान्तरेण सह संयोगलक्षणो यः प्रवेशः स सावयवे परिच्छिन्ने च मार्जारादौ दृष्टप्रवेशसदृशो न भवतीति योजना । वियुज्येति पाठे तु स्फुटैव योजना ।
प्रवेशश्रुत्या निरवयवत्वासिद्धिं शङ्कते —
सावयव इति ।
प्रवेशश्रुतेरन्यथोपपत्तेर्वक्ष्यमाणत्वान्नैवमिति परिहरति —
नेत्यादिना ।
अमूर्तत्वं निरवयत्वम् । पुरुषत्वं पूर्णत्वम् ।
प्रकारान्तरेण प्रवेशोपपत्तिं शङ्कते —
प्रतिबिम्बेति ।
आदित्यादौ जलादिना सन्निकर्षादिसंभवात्प्रतिबिम्बाख्यप्रवेशोपपत्तिः । आत्मनि तु परस्मिन्नसंगेऽनवच्छिन्ने केनचिदपि तदभावान्न यथोक्तप्रवेशसिद्धिरित्याह —
न वस्त्वन्तरेणेति ।
प्रकारान्तरेण प्रवेशं चोदयति —
द्रव्य इति ।
परस्यापि कार्ये प्रवेश इति शेषः ।
गुणापेक्षया परस्य दर्शयन्परिहरति —
नेत्यादिना ।
स्वातन्त्र्यश्रवणमेष सर्वेश्वर इत्यादि ।
पनसादिफले बीजस्य प्रवेशवत्कार्ये परस्य प्रवेशः स्यादिति शङ्कित्वा दूषयति —
फल इत्यादिना ।
विनाशादीत्यादिशब्देनानात्मत्वानीश्वरत्वादि गृह्यते ।
प्रसंगस्येष्टत्वमाशङ्क्य निराचष्टे —
न चेति ।
जन्मादीनां धर्माणां धर्मिणो भिन्नत्वाभिन्नत्वासंभवादिन्यायः । बीजफलयोरवयवावयवित्वं पाषाणसर्पयोराधाराधेयतेत्यपुनरुक्तिः ।
परस्य सर्वप्रकारप्रवेशासंभवे प्रवेशश्रुतेरालम्बनं वाच्यमित्याशङ्क्य पूर्वपक्षमुपसंहरति —
अन्य एवेति ।
जगतो हि परः स्रष्टेति वेदान्तमर्यादा स्रष्टैव च प्रवेष्टा प्रविश्य व्याकरवाणीति प्रवेशव्याकरणयोरेककर्तृत्वश्रुतेस्तस्मात्परस्मादन्यस्य प्रवेशो न युक्तिमानिति सिद्धान्तयति —
नेत्यादिना ।
तत्रैव तैत्तिरीयश्रुतिं संवादयति —
तथेति ।
ऐतरेयश्रुतिरपि यथोक्तमर्थमुपोद्बलयतीत्याह —
स एतमेवेति ।
श्रीनारायणाख्यमन्त्रमप्यत्रानुकूलयति —
सर्वाणीति ।
वाक्यान्तरमुदाहरति —
त्वं कुमार इति ।
अत्रैव वाक्यशेषस्याऽनुगुण्यं दर्शयति —
पुर इति ।
उदाहृतश्रुतीनां तात्पर्यमाह —
न परादिति ।
परस्य प्रवेशे प्रविष्टानां मिथो भेदात्तदभिन्नस्य तस्यापि नानात्वप्रसक्तिरिति शङ्कते —
प्रविष्टानामिति ।
न परस्यानेकत्वमेकत्वश्रुतिविरोधादिति परिहरति —
नेत्यादिना ।
विचार विचचारेति यावत् ।