परस्य प्रवेशे नानात्वप्रसंगं प्रत्याख्याय दोषान्तरं चोदयति —
प्रवेश इति ।
तेषां संसारित्वेऽपि परस्य किमायातं तदाह —
तदनन्यत्वादिति ।
श्रुत्यवष्टम्भेन दूषयति —
नेति ।
अनुभवमनुसृत्य शङ्कते —
सुखित्वेति ।
नासंसारित्वमिति शेषः ।
गूढाभिसन्धिरुत्तरमाह —
नेति ।
आगमो हि परस्यासंसारित्वे मानं त्वयोच्यते स चाध्यक्षविरुद्धो न स्वार्थे मानं न च वैपरीत्यं ज्येष्ठत्वेन बलवत्त्वादिति शङ्कते —
प्रत्यक्षादीति ।
शङ्किते पूर्ववादिनि स्वाशयमाविष्कृतवति सिद्धान्ती स्वाभिसन्धिमाह —
नोपाधीति ।
उपाधिरन्तःकरणं तदाश्रयत्वेन जनितो विशेषश्चिदाभासस्तद्गतदुःखादिविषयत्वात्प्रत्यक्षादेराभासत्वात्तेनाऽत्मन्यसंसारित्वागमस्य न विरोधोऽस्तीत्यर्थः ।
किञ्च प्रत्यक्षादीनामनात्मविषयत्वादात्मविषयत्वाच्चाऽऽगमस्य भिन्नविषयतया नानयोर्मिथो विरोधोऽस्तीत्यभिप्रेत्याऽऽत्मनोऽध्यक्षाद्यविषयत्वे श्रुतीरुदाहरति —
न दृष्टेरिति ।
सुख्यहमित्यादिप्रतिभासस्य तर्हि का गतिरित्याशङ्क्य पूर्वोक्तमेव स्मारयति —
किं तर्हीति ।
बुद्ध्यादिरुपाधिस्तत्राऽऽत्मप्रतिच्छाया तत्प्रतिबिम्बस्तद्विषयमेव सुख्यहमित्यादिविज्ञानमिति योजना ।
आत्मनो दुःखित्वाभावे हेत्वन्तरमाह —
अयमिति ।
अयं देहोऽहमिति दृश्येन द्रष्टुस्तादात्म्याध्यासदर्शनाद्दृश्यविशिष्टस्यैव प्रत्यक्षविषयत्वान्न केवलस्याऽऽत्मनो दुःखादिसंसारोऽस्तीत्यर्थः ।
किञ्चास्थूलादिविशेषणमक्षरं प्रक्रम्य तस्यैव प्रत्यगात्मत्वं दर्शयन्ती श्रुतिरात्मनः संसारित्वं वारयतीत्याह —
नान्यदिति ।
किञ्च पादयोर्दुःखं शिरसि दुःखमिति देहावयवावच्छिन्नत्वेन तत्प्रतीतेस्तद्धर्मत्वनिश्चयान्नाऽऽत्मनि संसारित्वं प्राणाणिकमित्याह —
देहेति ।
श्रुतिवशादात्मनः संसारित्वं शङ्कते —
आत्मनस्त्विति ।
सुखं तावदात्माश्रय’मात्मनस्तु कामाये’ति सुखसाधनस्याऽऽत्मार्थत्वश्रुतेरतस्तदविनाभूतं दुःखमपि तत्रेत्यात्मन्यसंसारित्वमयुक्तमित्यर्थः ।
आविद्यकसंसारित्वानुवादेनाऽऽत्मनोतिशयानन्दत्वप्रतिपादकमात्मनस्तु कामायेत्यादिवाक्यमिति मत्वाऽऽह —
नेति ।
तदाविद्यकसंसारानुवादीत्यत्र गमकमाह —
यत्रेति ।
अनेन हि वाक्येनाविद्यावस्थायामेवाऽऽत्मार्थत्वं सुखादेरभ्युपगम्यते । अतो न तस्याऽऽत्मधर्मत्वमित्यर्थः ।
आत्मनि संसारित्वस्याप्रतिपाद्यत्वेऽपि गमकमाह —
तत्केनेति ।
आत्मनोऽसंसारित्वे विद्वदनुभवमनुकूलयितुं चशब्दः ।
तर्कशास्त्रप्रामाण्यादात्मनः संसारित्वमिति शङ्कते —
तार्किकेति ।
बुद्ध्यादिचतुर्दशगुणवानात्मेति तार्किकसमयस्तेन विरोधात्तस्यासंसारित्वमयुक्तं तर्काविरुद्धो हि सिद्धान्तो भवतीत्यर्थः ।
सर्वतर्काविरोधी वा कतिपयतर्काविरोधी वा सिद्धान्तः ? नाऽऽद्यः । तार्किकादिसिद्धान्तस्यापि मिथो वैदिकतर्कैश्च विरोधादसिद्धिप्रसंगात् । द्वितीये तु श्रौततर्काविरोधादात्मासंसारित्वसिद्धान्तोऽपि सिद्ध्येदित्यभिसन्धायाऽऽह —
न युक्त्याऽपीति ।
किञ्च दुःखादिरात्मधर्मो न भवति वेद्यत्वाद्रूपादिवदित्याह —
न हीति ।
प्रत्यक्षाविषयत्वोक्त्या प्रतीचस्तद्विषयदुःखाविशेष्यत्वमुक्तमयुक्तं प्रत्यक्षाप्रत्यक्षयोः शब्दाकाशयोरिव दुःखात्मनोरपि गुणगुणित्वसंभवादिति शङ्कते —
आकाशस्येति ।
यत्र धर्मधर्मिभावस्तत्रैकज्ञानगम्यत्वं दृष्टं यथा शुक्लो घट इति तद्व्यापकं व्यावर्तमानं दुःखात्मनोर्धर्मधर्मित्वं व्यावर्तयति शब्दाकाशयोरपि गुणगुणिभावो नास्माकं सम्मतः शब्दतन्मात्रमाकाशमिति स्थितेरित्याशयेनाऽऽह —
नैकेति ।
कथं तदनुपपत्तिस्तत्राऽऽह —
न हीति ।
नित्यानुमेयस्येति जरत्तार्किकमतानुसारेण साङ्ख्यसमयानुसारेण चोक्तम् ।
आधुनिकं तार्किकं प्रत्याह —
तस्य चेति ।
सुखादिवदात्मनोऽपि प्रत्यक्षेण विषयीकरणे सत्येकस्मिन्देहे तदैक्यसम्मतेरात्मान्तरस्य तत्रायोगादेकत्र भोक्तृद्वयानिष्टेः पुरुषान्तरस्यान्यं प्रत्यप्रत्यक्षत्वाद्द्रष्ट्रभावादात्मदृश्यत्वासिद्धिरित्यर्थः ।
दीपस्य स्वव्यवहारहेतुत्वेन विषयविषयित्ववदेकस्यैवाऽऽत्मनो द्रष्टृदृश्यत्वसिद्धेर्द्रष्ट्रभावो नास्तीति शङ्कते —
एकस्यैवेति ।
आत्मनो विषयविषयित्वं कार्त्स्न्येनांशाभ्यां वा । आद्येऽपि युगपत्क्रमेण वा । नाऽऽद्य इत्याह —
न युगपदिति ।
क्रियायां गुणत्वं कर्तृत्वं तत्र प्राधान्यं कर्मत्वमतो युगपदेकक्रियां प्रत्येकस्य साकल्येन गुणप्रधानत्वायोगान्नैवमित्यर्थः ।
न द्वितीयः । एकभावेऽन्याभावादिति मत्वा कल्पान्तरं प्रत्याह —
आत्मनीति ।
एतेन प्रदीपदृष्टान्तोऽपि प्रतिनीतस्तस्यांशाभ्यां तद्भावे प्रकृताननुकूलत्वात् ।
ननु विज्ञानवादिनो युगपदेकस्य विज्ञानस्य साकल्येन ग्राह्यग्राहकत्वमुपयन्ति तथा त्वदात्मनोऽपि स्यात्तत्राऽऽह —
एतेनेति ।
एकस्योभयत्वनिरासेनेत्यर्थः ।
मा भूत्प्रत्यक्षमागमिकं पारिभाषिकं वाऽऽत्मनः संसारित्वम् । आनुमानिकं तु भविष्यति दुःखादि क्वचिदाश्रितं गुणत्वाद्रूपादिवदित्याश्रये सिद्धे परिशेषादात्मनस्तदाश्रयत्वादित्याशङ्क्याऽऽह —
प्रत्यक्षेति ।
न हि मिथो विरुद्धयोर्गुणगुणित्वमनुमेयं दुःखादेश्च साभासबुद्धिस्थत्वात्पारिशेष्यासिद्धिरित्यर्थः ।
साभासान्तःकरणनिष्ठदुःखादीत्यत्र प्रमाणाभावात्कथं सिद्धसाधनत्वमित्याशङ्क्य दुःख्यहमित्यादिप्रत्यक्षस्य तत्र प्रमाणत्वादुक्तानुमानस्य सिद्धसाध्यतया परिशेषासिद्धिरित्याह —
दुःखस्येति ।
यत्र रूपादिमति देहे दाहच्छेदादि दृष्टं तत्रैव तत्कृतदुःखाद्युपलम्भान्नाऽऽत्मनस्तद्वत्त्वमिति हेत्वन्तरमाह —
रूपादिति ।
यत्त्वात्ममनःसंयोगादात्मनि बुद्ध्यादयो नव वैशेषिका गुणा भवन्तीति तद्दूषयति —
मनःसंयोगजत्वेऽपीति ।
दुःखस्याऽऽत्मनि मनःसंयोगजत्वेऽभ्युपगतेऽपि मनोवदात्मनः संयोगित्वात्सावयवत्वादिप्रसंगादात्मत्वमेव न स्यादित्यर्थः ।
तत्र संयोगित्वेन सक्रियत्वं साधयति —
नहीति ।
संप्रति सक्रियत्वेन सावयवत्वं प्रतिपादयति —
न चेति ।
यद्वा दुःखाद्यात्मनो विक्रियेति कैश्चिदिष्टत्वात्तस्य सक्रियत्वमविरुद्धमित्याशङ्क्याऽऽह —
न चेति ।
आत्मा न परिणामी निरवयवत्वान्नभोवदिति भावः ।
किञ्चाऽऽत्मा न गुणी नित्यत्वात्सामान्यवदित्याह —
अनित्येति ।
नित्यं पश्याम इति शेषः । वाशब्दो नञनुकर्षणार्थः ।
आकाशे व्यभिचारमाशङ्क्याऽऽह —
न चेति ।
आकाशस्य नित्यत्वं चेत् ‘आत्मन आकाशः संभूतः’(तै. उ. २ । १। १) इत्यादिश्रुतिविरोधः स्यादिति सूचयितुमागमवादिभिरित्युक्तम् ।
परमाण्वादौ व्यभिचारमाशङ्क्याऽऽह —
न चान्य इति ।
न तावदणवः सन्ति त्र्यणुकेतरसत्त्वे मानाभावाद्दिशश्चाऽऽकाशेऽन्तर्भवन्ति कालस्तु ‘सर्वे निमेषा जज्ञिर’ इत्यादिश्रुतेरुत्पत्तिमान्मनोऽप्यन्नमयं श्रुतिप्रसिद्धमतो न क्वचिद्व्यभिचार इति भावः ।
यस्मिन्विक्रियमाणे तदेवेदमिति बुद्धिर्न विहन्यते तदपि नित्यमिति न्यायेन परिणामवादी शङ्कते —
विक्रियमाणमिति ।
तत्प्रत्ययस्तदेवेदमिति प्रत्ययः ।
विक्रियां वदता द्रव्यस्यावयवान्यथात्वं वाच्यं तदेव तस्यानित्यत्वमत्यन्ताभावस्य प्रामाणिकत्वे दुर्वचत्वादिति परिहरति —
न द्रव्यस्येति ।
आत्मनः सक्रियत्वं सावयवत्वं वाऽऽस्तु तथाऽपि नानित्यत्वमिति स्याद्वादी शङ्कते —
सावयवत्वेऽपीति ।
यत्सावयत्वं तदवयवसंयोगकृतं यथा पटादि तथा सति संयोगस्य विभागावसानत्वादवयवविभागे द्रव्यनाशोऽवश्यम्भावीति दूषयति —
न सावयवस्येति ।
यत्सावयवं तदवयवसंयोगपूर्वकमिति न व्याप्तिः ।
सावयवेष्वेव वज्रादिष्ववयवसंयोगपूर्वकत्वे प्रमाणाभावादिति शङ्कते —
वज्रादिष्विति ।
विमतमवयवसंयोगपूर्वकं साववयत्वात्पटवदित्यनुमानेन परिहरति —
नानुमेयत्वादिति ।
आत्मनो मनःसंयोगजन्यदुःखादिगुणत्वे सावयवत्वसक्रियत्वानित्यत्वादिप्रसंगं प्रतिपाद्य प्रकृतमुपसंहरति —
तस्मादिति ।
आत्मनोऽनर्थध्वंसार्थशास्त्रारम्भान्यथानुपपत्त्या संसारितेत्यर्थापत्त्या शङ्कते —
परस्येति ।
अविद्याविद्यमानमात्मस्थमनर्थभ्रमं निराकर्तुं तदारम्भः संभवतीत्यन्यथोपपत्त्या समाधत्ते —
नाविद्येति ।
परस्यैवाविद्याकृतसंसारित्वभ्रान्तिध्वंसार्थं शास्त्रमित्येतद्दृष्टान्तेन स्पष्टयति —
आत्मनीति ।
यत्तु परस्यादुःखित्वमन्यस्य च दुःखिनोऽसत्त्वं तत्राऽऽह —
कल्पितेति ।
न तावत्परस्मादन्यो दुःखी ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । स पुनरनाद्यनिर्वाच्याज्ञानसंबन्धात्तज्जन्यैर्बुद्ध्यादिभिरैक्याध्यासमापन्नः संसरति । तथा च कल्पिताकारद्वारा दुःखिनः परस्याऽऽत्मनोङ्गीकारान्नार्थापत्तेरुत्थानमित्यर्थः ।