तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
जलसूर्यादिप्रतिबिम्बवत् आत्मप्रवेशश्च प्रतिबिम्बवत् व्याकृते कार्ये उपलभ्यत्वम् । प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात्कार्ये च सृष्टे व्याकृते बुद्धेरन्तरुपलभ्यमानः, सूर्यादिप्रतिबिम्बवज्जलादौ, कार्यं सृष्ट्वा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते — ‘स एष इह प्रविष्टः’ ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । ६) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (ऐ. उ. १ । ३ । १२) ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इत्येवमादिभिः । न तु सर्वगतस्य निरवयवस्य दिग्देशकालान्तरापक्रमणप्राप्तिलक्षणः प्रवेशः कदाचिदप्युपपद्यते । न च परादात्मनोऽन्योऽस्ति द्रष्टा, ‘नान्यदतोऽस्ति द्रष्टृ’ ‘नान्यदतोऽस्ति श्रोतृ’ (बृ. उ. ३ । ८ । १) इत्यादिश्रुतेः — इत्यवोचाम । उपलब्ध्यर्थत्वाच्च सृष्टिप्रवेशस्थित्यप्ययवाक्यानाम् ; उपलब्धेः पुरुषार्थत्वश्रवणात् — ‘आत्मानमेवावेत् तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘आचार्यवान्पुरुषो वेद’‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इत्यादिश्रुतिभ्यः ; ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ (भ. गी. १८ । ५५) ‘तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः’ (मनु. १२ । ८५) इत्यादिस्मृतिभ्यश्च । भेददर्शनापवादाच्च, सृष्ट्यादिवाक्यानामात्मैकत्वदर्शनार्थपरत्वोपपत्तिः । तस्मात्कार्यस्थस्योपलभ्यत्वमेव प्रवेश इत्युपचर्यते ॥