का पुनरस्य प्रवेशस्य मर्यादेत्याशङ्क्याऽऽह —
आ नखाग्रेभ्य इति ।
संभवति मर्यादान्तरे किमिति प्रवेशस्येयमेव मर्यादेत्याशङ्क्याऽऽह —
नखाग्रेति ।
दृष्टान्तद्वयमाकाङ्क्षापूर्वकमुत्थापयति —
तत्रेति ।
प्रवेशाधारो देहादिः सप्तम्यर्थः ।
प्रथमोदाहरणप्रतीकोपादानम् —
यथेति ।
तद्व्याचष्टे —
लोक इति ।
तत्र प्रवेशितत्वं क्षुरस्य कथं सिद्धमत आह —
अन्तःस्थ उपलभ्यत इति ।
विश्वम्भरशब्दस्याग्निविषयत्वं व्युत्पादयति —
विश्वस्येति ।
तस्य तद्भर्तृत्वं महाभूतत्वाज्जाठरत्वाद्वा द्रष्टव्यम् ।
काष्ठादावग्नेरवहितत्वे युक्तिमाह —
तत्रेति ।
दृष्टान्तद्वये विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह —
यथेत्यादिना ।
आत्मनो जाग्रत्स्वप्नयोर्देहे द्वयी वृत्तिः स्वापे तु सामान्यवृत्तिरेवेत्यवान्तरविभागमाह —
तत्र हीति ।
अवस्थाद्वयं सप्तम्यर्थ; न केवलं विशेषवृत्तिरेव तदोपलब्धा किन्तु सामान्यवृत्तिश्चेति चकारार्थः । अवस्थान्तरे सैवेत्यपि तस्यैवार्थः ।
वाक्यान्तरमवतारयितुं भूमिकामाह —
तस्मादिति ।
यस्मादुभयी वृत्तिरात्मनः शरीरे दृश्यते तस्मात्तत्रैव जलसूर्यवदविद्यया प्रविष्टोऽयमिति योजना ।
व्याकृताज्जगतः सकाशादात्मानं पृथक्कर्तुं तं न पश्यन्तीति वाक्यं तद्व्याचष्टे —
तमात्मानमिति ।
विशिष्टं पश्यन्तोऽपि केवलमात्मानं न पश्यन्तीति यावत् ।
चाक्षुषत्वनिषेधस्येष्टत्वमाशङ्क्य व्याचष्टे —
नोपलभन्त इति ।
उक्तनिषेधमाक्षिपति —
नन्विति ।
प्रतिषेध्यस्य प्राप्तिं दर्शयन्परिहरति —
नेत्यादिना ।
’तन्नामरूपाभ्यां’ ।
स एष इत्यादिवाक्यानां ज्ञानार्थत्वे मानमाह —
रूपमिति ।
विशिष्टस्य दर्शनेऽपि पूर्णस्यादर्शने हेतूक्तिरनन्तरवाक्यमित्याह —
तत्रेति ।
प्रतिज्ञावाक्यार्थे स्थिते सतीति यावत् । तस्मात्तद्दर्शनेऽपि पूर्णस्यादर्शनमिति शेषः ।
विशिष्टस्यापि पूर्णत्वमात्मत्वादन्यथा प्राणनादिकर्तृत्वायोगादिति शङ्कते —
कुत इति ।
प्राणनादिक्रियाकर्ता प्राणादिभिः संहतत्वात्पूर्णो न भवतीत्युत्तरवाक्यैरुत्तरमाह —
उच्यत इति ।
आत्मनि प्राणशब्दप्रवृत्तिमुपपादयति —
प्राणनक्रियाकर्तृत्वादिति ।
तत्कर्तृत्वादात्मा प्राण उच्यते प्राणितीति व्युत्पत्तेरिति योजना ।
सदृष्टान्तमेवकारार्थमाह —
नान्यामिति ।
एवकारार्थमनूद्य हेत्वर्थमुपसंहरति —
तस्मादिति ।
स्वापावस्थायां समस्तकरणोपसंहारेऽपि प्राणस्य व्यापारदर्शनात्प्राधान्यावगमात्प्राणन्नित्यादिवाक्यमादौ व्याख्याय क्रियाशक्तित्वेन प्राणसादृश्याद्वाचो वदन्नित्येतत्पूर्वकमुत्तरवाक्यानि व्याचष्टे —
तथेत्यादिना ।
प्राणनवदनाभ्यामनुक्तकर्मेन्द्रियव्यापारमुपलक्ष्य वाक्यद्वयतात्पर्यमाह —
प्राणन्नेवेति ।
प्राणवागाद्युपाधिद्वारेणाऽऽत्मनीति शेषः ।
दृष्टिश्रुतिभ्यामनुक्तज्ञानेन्द्रियव्यापारोपलक्षणं कृत्वाऽनन्तरवाक्ययोस्तात्पर्यमाह —
पश्यन्निति ।
चक्षुराद्युपाधिद्वाराऽत्मनीति पूर्ववत् ।
उक्तबुद्धीन्द्रियव्यापाराभ्यामनुक्तं तद्व्यापारमुपलक्ष्याऽऽत्मनः स्रष्टृत्वादिपरिच्छेदो न सिद्ध्यति संबन्धं विनोपलक्षणायोगादित्याशङ्क्याऽऽह —
नामरूपेत्यादिना ।
प्रकाश्यप्रकाशकातिरिक्तज्ञेयाभावात्तदुपलम्भे च चक्षुःश्रोत्रयोरिव त्वगादेरपि करणत्वादेकार्थत्वरूपसंबन्धादुपलक्षणसंभवादात्मनः स्रष्टृत्वादिसिद्धिरित्यर्थः ।
तथाप्युक्तकर्मेन्द्रियव्यापारेणानुक्ततद्व्यापारोपलक्षणादात्मनो न गन्तृत्वादिपरिच्छेदः संगच्छते विना संबन्धमुपलक्षणासिद्धेरित्याशङ्क्याऽऽह —
क्रिया चेत्यादिना ।
सर्वा क्रिया नामरूपव्यङ्या प्राणाश्रया च तत्र प्राणाश्रयनामविषयोच्चारणक्रियाव्यञ्जकत्वं वाचो हस्तादीनां तदाश्रयादानादिव्यञ्जकता तस्मादेकाश्रयक्रियाव्यञ्जकत्वयोगादुपलक्षणसंभावादात्मनो गन्तृत्वादिसिद्धिरित्यर्थः ।
शक्तिद्वयोद्भवोक्त्या समस्तसंसारस्य प्रतीच्यध्यासोऽत्र विवक्षित इत्याह —
एतदेवेति ।
उद्भूतं शक्तिद्वयमेतच्छब्दार्थः, उक्तेऽर्थे वाक्यशेषमनुकूलयति —
त्रयमिति ।
आत्मा मन्वानः सन्मन इत्युच्यते मनुत इति व्युत्पत्तेरिति वाक्यान्तरं व्याचष्टे —
मन्वान इति ।
करणे प्रसिद्धस्य मनःशब्दस्य कथमात्मनि वृत्तिरित्याशङ्क्य व्युत्पत्तिभेदमाह —
ज्ञानशक्तीत्यादिना ।
आत्मादिशब्देभ्यो विशेषमाह —
तानीति ।
कृत्स्नात्मवस्त्ववद्योतकानि न भवन्तीत्येतदेव स्फुटयति —
एवं हीति ।
प्राणादीनां कर्मनामत्वे सतीति यावत् । अवद्योत्यमानोऽपि न कृत्स्नो दृष्टः स्यादिति शेषः ।
अकृत्स्नदर्शिनोऽप्यात्मदर्शित्वमाशङ्क्याऽऽह —
स य इति ।
आत्मोपासितुरात्मदर्शनासत्त्वमयुक्तमिति शङ्कित्वा परिहरति —
कस्मादित्यादिना ।
तस्माद्विशिष्टात्मदर्शी न ब्रह्मात्मत्वदर्शीति शेषः ।
उपास्तिर्ज्ञानमुपास्त इति न जानाति स्वभावादुपासनमित्युक्तत्वात् । तथा च जानन्न जानातीति व्याहतिरित्याशङ्क्याऽऽह —
यावदिति ।
एवं वेदेत्येतदेव विव्रियते —
पश्यामीत्यादिना ।