बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
कथं पुनः पश्यन्वेदेत्याह — आत्मेत्येव आत्मेति — प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य सः — आप्नुवंस्तान्यात्मेत्युच्यते । स तथा कृत्स्नविशेषोपसंहारी सन्कृत्स्नो भवति । वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति । तथा च वक्ष्यति — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति । तस्मादात्मेत्येवोपासीत । एवं कृत्स्नो ह्यसौ स्वेन वस्तुरूपेण गृह्यमाणो भवति । कस्मात्कृत्स्न इत्याशङ्क्याह — अत्रास्मिन्नात्मनि, हि यस्मात् , निरुपाधिके, जलसूर्यप्रतिबिम्बभेदा इवादित्ये, प्राणाद्युपाधिकृता विशेषाः प्राणादिकर्मजनामाभिधेया यथोक्ता ह्येते, एकमभिन्नताम् , भवन्ति प्रतिपद्यन्ते ॥

आकाङ्क्षापूर्वकं विद्यासूत्रमवतारयति —

कथमिति ।

तत्र व्याख्येयं पदमादत्ते —

आत्मेतीति ।

तद्व्याचष्टे प्राणादीनीति ।

तस्मिन्दृष्टे पूर्वोक्तदोषपराहित्यं दर्शयति —

स तथेति ।

तत्तद्विशेषणव्याप्तिद्वारेणेति यावत् ।

कथं तत्तद्विशेषोपसंहारी तेन तेनाऽत्मना तिष्ठन्कृत्स्नः स्यात्तत्राह —

वस्तुमात्रेति ।

स्वतोऽस्य प्राणनादिसंबन्धे संभवति किमित्युपाधिसंबन्धेनेत्यासंक्याऽऽह —

तथा चेति ।

आत्मनि सर्वोपसंहारवति दृष्टे पूर्वोक्तदोषाभावात्तं पश्यन्नेवाऽऽत्मदर्शीत्युपसंहरति —

तस्मादिति ।

यथोक्तात्मोपासने पूर्वोक्तदोषाभावे प्रागुक्तमेव हेतुं स्मारयति —

एवमिति ।

तस्यार्थं स्फोरयति —

स्वेनेति ।

वाङ्मनसातीतेनाकार्यकरणेन प्रत्यग्भूतेनेति यावत् ।

आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति —

कस्मादित्यादिना ।

तस्माद्यथोक्तमात्मानमेवोपासीतेति शेषः । अस्यैव द्योतको द्वितीयो हिशब्दः ।