बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इति नापूर्वविधिः, पक्षे प्राप्तत्वात् । ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १), (बृ. उ. ३ । ५ । १) ‘कतम आत्मेति — योऽयं विज्ञानमयः’ (बृ. उ. ४ । ३ । ७) इत्येवमाद्यात्मप्रतिपादनपराभिः श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम् ; तत्रात्मस्वरूपविज्ञानेनैव तद्विषयानात्माभिमानबुद्धिः कारकादिक्रियाफलाध्यारोपणात्मिका अविद्या निवर्तिता ; तस्यां निवर्तितायां कामादिदोषानुपपत्तेरनात्मचिन्तानुपपत्तिः ; पारिशेष्यादात्मचिन्तैव । तस्मात्तदुपासनमस्मिन्पक्षे न विधातव्यम् , प्राप्तत्वात् ॥

विद्यासूत्रं विधिस्पर्शं विना विवक्षितेऽर्थे व्याख्यायापूर्वविधिरयमिति पक्षं प्रत्याह —

आत्मेत्येवेति ।

अत्यन्ताप्राप्तार्थो ह्यपूर्वविधिर्यथा स्वर्गकामोऽग्निहोत्रं जुहुयादिति । नायं तथा पक्षे प्राप्तत्वादात्मोपासनस्य । तस्य तत्प्राप्तिश्च पुरुषविशेषापेक्षया विचारावसाने स्पष्टीभविष्यतीत्यर्थः ।

इदानीमात्मज्ञानस्याविधेयत्वख्यापनार्थं वस्तुस्वभावालोचनया नित्यप्राप्तिमाह —

यत्साक्षादिति ।

उत्पाद्यतामुक्तश्रुतिभिरात्मविज्ञानं किं तावतेत्यत आह —

तत्रेति ।

कारकादीत्यादिपदं तदवान्तरभेदविषयम् ।

नन्वविद्यायामपनीतायामपि रागद्वेषादिसद्भावाद्वैधी प्रवृत्तिः स्यान्नहि विद्वदविदुषोर्व्यवहारे कश्चिद्विशेषः ‘पश्वादिभिश्चाविशेषादि’ति न्यायादत आह —

तस्यामिति ।

बाधितानुवृत्तिमात्रान्न वैधी प्रवृत्तिरबाधिताभिमानमन्तरेण तदयोगादिति भावः ।

विदुषः सुषुप्ततुल्यत्वं व्यावर्तयति —

पारिशेष्यादिति ।

श्रौतज्ञानात्पूर्वमपि सर्वासां चित्तवृत्तीनां जन्मनैवाऽऽत्मचैतन्यव्यञ्जकत्वात्प्राप्तमात्मज्ञानं श्रौते तु ज्ञाने नास्त्यनात्मेति स्फुरणमात्मज्ञानमेवेति नित्यप्राप्तिमभिप्रेत्याऽऽह —

तस्मादिति ।

अस्मिन्पक्ष इति नित्यप्राप्तत्वपक्षोक्तिः ।