अपूर्वविधिवादी शङ्कते —
तिष्ठतु तावदिति ।
सर्वेषां स्वभावतो विषयप्रवणानीन्द्रियाणि नाऽऽत्मज्ञानवार्तामपि मृष्यन्ते तदत्यन्ताप्राप्तत्वादात्मज्ञाने भवत्यपूर्वविधिरिति भावः ।
विशिष्टस्याधिकारिणः शाब्दज्ञानं शब्दादेव सिद्धमिति कथमप्राप्तिरित्याशङ्क्याऽऽह —
ज्ञानेति ।
न खल्वत्र शाब्दज्ञानं विवक्षितं किन्तूपासनम् । उपासनं नाम मानसं कर्म तदेव ज्ञानावृत्तिरूपत्वाज्ज्ञानमित्येकत्वे सत्यप्राप्तत्वाद्विधेयमित्यर्थः ।
तयोरेकत्वं विवृणोति —
नेत्यादिना ।
अनेन हीत्यादौ वेदशब्दस्यार्थान्तरविषयत्ववन्न स वेदेत्यत्रापि किं न स्यादित्याशङ्क्यऽऽह —
अनेनेति ।
उक्तश्रुतिभ्यो यद्विज्ञानं श्रुतं तदुपासनमेवेति योजना । ‘स योऽत एकैकमुपास्ते’(बृ. उ. १ । ४ । ७) इत्युपक्रमात् ‘आत्मेत्येवोपासीत’ इत्युपसंहाराच्च न स वेदेत्यत्र तावद्वेदशब्दस्योपासनार्थत्वमेष्टव्यमन्यथोपक्रमोपसंहारविरोधात् । तथा चार्धवैशसासंभवादुपासनमेव सर्वत्र वेदनं न तच्च सर्वथैवाप्राप्तमिति तस्मिन्नपूर्वविधिः स्यादिति भावः ।
इतश्च तस्मिन्नेष्टव्यो विधिरित्याह —
न चेति ।
अतः प्रवर्तको विधिरुपेय इति शेषः ।
स चात्यन्ताप्राप्तविषयत्वान्नियमादिरूपो न भवतीत्याह —
तस्मादिति ।
आत्मोपास्तिर्विधेयेत्यत्र हेत्वन्तरमाह —
कर्मविधीति ।
कर्मात्मज्ञानविध्योः शब्दानुसारेणाविशेषमभिदधाति —
यथेत्यादिना ।
संप्रत्यर्थतोऽप्यविशेषमाह —
मानसेति ।
तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।
यदि क्रिया विधीयते कथं ज्ञानात्मिकेति विशेष्यते तत्राऽऽह —
तथेति ।
इतश्चाऽत्मोपासने विधिरस्तीत्याह —
भावनेति ।
वेदान्तेषु भावनोपेक्षितांशत्रयोपपत्तिं विशदयितुं दृष्टान्तमाह —
यथेति ।
भावनाया विधीयमानत्वे सतीति शेषः । प्रेरणाधर्मकः शब्दव्यापारः स्वज्ञानकरणकः स्तुत्यादिज्ञानेतिकर्तव्यताकः पुरुषप्रयत्नभाव्यनिष्ठः शब्दभावनोच्यते ।
स्वर्गं यागेन प्रयाजादिभिरुपकृत्य साधयेदिति पुरुषप्रवृत्तिरर्थभावनेति विभागः दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —
तथेत्यादिना ।
त्यागो निषिद्धकाम्यवर्जनम् । उपरमो नित्यनैमित्तिकत्यागः । तितिक्षादीत्यादिपदं समाधानादिसंग्रहार्थमित्यंशत्रयमिति संबन्धः । शास्त्रं ‘शान्तो दान्त’(बृ. उ. ४ । ४ । २३) इत्यादि । उक्तप्रकारमंशत्रयमन्यदपि सुलभमिति वक्तुमादिपदम् ।
विधियुक्तानां वेदान्तानां कार्यपरत्वेऽपि तद्धीनानां तेषां वस्तुपरतेत्याशङ्क्याऽऽह —
यथा चेति ।
विध्युद्देशत्वेन तच्छेषत्वेनेति यावत् ।
अस्थूलादिवाक्यानामारोपितद्वैतनिषेधेनाद्वयं वस्तु समर्पयतां कथमुपास्तिविधिशेषत्वमित्याशङ्क्याऽऽह —
नेत्यादिना ।
’ब्रह्म वेद ब्रह्मैव भवति’ ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) इत्यादीनां फलार्पकत्वेनोपास्तिविध्युपयोगमभिप्रेत्याऽऽह —
फलञ्चेति ।
मोक्षो ब्रह्मप्राप्तिः ।